साहसेनैव दुर्जननिग्रहः
वसति स्म पुरा कस्मिश्चित् नगरोपकण्ठवर्तिनि सान्द्रारण्यपरिसरे स्थिते ग्रामे काचिदुन्दुरी। तस्याश्च कस्यचित् कर्षकस्यान्नभाण्डारोपशल्ये सुविस्तृतमतिमञ्जुलं सुगभीरञ्च किञ्चिद्बिलमासीत्, येनासौ विपुलान्नसमृद्ध्या निरातङ्कं सुखं कालमतिवाहयामास। परन्त्वरण्यवास्तव्यो रौद्रकर्मा कश्चिद् धूर्तवृषदंशः प्रत्यहमुपेत्य तदपत्यानि निर्दयं मुहुर्मुहुर्जक्षंस्तस्या महते सन्तापाय बभूव, येनेयं वराकी परं विषादमुपगता नितरां खिन्ना च सञ्जाता।
अथ कदाचिच्छोकसन्तप्तहृदया सा भर्तारमाबभाषे—“भोः! असकृन्मयोदितं यदस्माद्विपत्सङ्कुलाद् गृहान्निष्क्रामामेति, परन्त्वन्नलोभाकृष्टचेतसा त्वया मदीयं वचो न खल्वङ्गीकृतम्। यद्यत्रास्मिन् स्थानेऽधिककालमवस्थानं विधीयेत, तर्हि ध्रुवमस्माकं समूलोच्छेदः संजायेत। तस्मादिदं वेश्म विहाय सद्य एव क्षेमकरं किञ्चिद्देशान्तरं गच्छामेति।
तच्छ्रुत्वा मूषकोऽब्रवीत्—“भद्रे! अलं मुधा विषादेन, अस्या दारुणाया आपदो निस्तारणाय कञ्चिदुत्तममुपायं चिन्तयामि, मा स्म भूः कातरा” इति। एवं तां सान्त्वनोक्तिभिः कृच्छ्रात् समाश्वास्य, ‘किं मया विधेयम्, कथममुष्य दुरात्मनो वनौतोर्निबर्हणं स्यात्’ इति मुहुर्मुहुर्विमृशतस्तस्य चेतसि कश्चिदुपायाभासः समन्तात् प्रादुरभूत्। तञ्च स्वमनसि स्फुरितं सद्यःफलप्रदमुपायं प्रहृष्टान्तरात्मा स पत्न्यै न्यवेदयत्।
अथ परेद्युः कृतनिश्चयः स वनमार्जारस्यालयं प्रतस्थे। तीक्ष्णाग्रं दृढं कण्टकं कराभ्यामादाय सोऽमुष्य शय्याप्रान्ते निभृतं निलीनस्तस्थौ, प्रतीक्षमाणस्तस्यागमनम्। प्राप्ते च मध्यन्दिने, विश्रमितुं वेश्मोपागतः स धूर्तबिडालो यावदेव श्रमापनोदाय सुखस्पर्शायां घासनिर्मितायां शय्यायां पपात, तावदेव तस्य घ्राणपथं कश्चिदाखुगन्ध आविवेश। ततः स चिन्तयामास—‘कुत इहायात्ययं परिस्फुट उन्दुरुगन्धः? अत्र तु स्वप्नेऽपि तेषां प्रवेशो दुःशक्यः। अद्य खलु मया प्रभातादारभ्य बहव आखवो निगीर्णाः, तेनैव मे नासापुटान्तरं प्रविष्टोऽयं गन्धः स्यात्’ इत्यवधार्य स निःशङ्कतया सुखनिद्रामुपययौ।
यावच्च तस्य क्रूरौतोर्निद्राभङ्गः स्यात्, प्रागेव ततः स धीरो मूषकोऽतर्कितमेवाग्रे प्रसृत्य तस्य नयने तीक्ष्णकण्टकेन निर्दयं विव्याध, येनासौ मार्जारो वेदनयाक्रन्दितो गतचक्षुः सञ्जातः। तदवलोक्य कृतकृत्यः प्रहृष्टः स स्वगृहं प्रतिनिववृते।
गृहमुपागत्य च सः—‘लब्धो मया जयः, लब्धो मया जयः’ इति प्रहर्षोत्फुल्लवदनमुदघोषयामास। तदिदं श्रुत्वा सर्वेऽप्यमी आखवो विगतभयाः परं प्रमोदमुपजग्मुः।