You are here: Home » stories » 298

प्राणाहुत्याकर्तव्यप्रबोधनम्

बभूव किल प्रथमस्वातन्त्र्यसमरकालः। तस्मिंश्च सङ्ग्रामे नानासाहेबाभिधो वीरधौरेयो नेतृत्वमुवाह। आङ्गलशासकैश्चेत्थमुदघोष्यत— “यो ह्यमुष्य नानासाहेबस्यावस्थानं नः प्रज्ञापयेत्तस्मै पञ्चाशत्सहस्ररूप्यकाणि प्रदास्यन्ते” इति।

अथैकदा क्षुत्पिपासाश्रमार्तोऽसावेकस्य सद्मनो द्वारं जघान। द्वारि समुपस्थितममुं विलोक्य गृहमेधिनी नितरां जहर्ष। सा च तं ससम्भ्रमं प्रत्युद्गम्य स्नानादिकं सर्वं सम्पाद्य तस्मै भोजनं पर्यवेषयत्। तावति काले पुनरपि कवाटताडनध्वनिरश्रावि। तदा सा गृहिणी बभाषे— “नूनमागतो मे पतिः। स चारक्षकविभागे नियुक्तः। तस्मात्त्वमट्टे निलीयस्व। भुक्त्वा यदा स निर्गच्छेत्तदा त्वमवरोहेः” इति।

तच्छ्रुत्वा नानासाहेबो वलभीं प्रविश्य न्यलीयत। सा च द्वारमपावृणोत्। अन्तः प्रविश्य स आरक्षकाधिकारी प्रोवाच— “क्व स नानासाहेबः? सोऽस्मद्गृहं विवेशेति निर्विवादा वार्ता मयोपलब्धा। यो ह्येनं गृह्णीयात्तस्मै पञ्चाशत्सहस्ररूप्यकाणि प्रदास्यति सर्वकारः। तावद्धनं चेल्लभ्येत, तर्ह्यावयोर्जीवनं परमानन्दमयं स्यात्” इति।

तदा सा पतिव्रता जगाद— “किमिदं भाषसे त्वम्! उपकर्तव्यः खलु देशभक्तः यथाशक्ति साहाय्यप्रदानेन। नैवोचितं धनलुब्धैस्तद्ग्रहणाय यतितुम्” इति।

तस्याः पतिस्तदेतन्नानुमेने। गृहिणी च पत्युराशयं प्रत्यचष्ट। ततश्च दम्पत्योर्मध्ये सुमहद्वाग्युद्धं समजनि। क्रोधार्तश्च पतिस्तां ताडयितुमुदयुङ्क्त। उपरिष्टादिदं सर्वं पश्यन्स नानासाहेबो हठादवरुह्य प्रत्यवादीत्— “आर्य! अहमेवास्मि स नानासाहेबः। मां त्वमारक्षकहस्ते समर्पयितुमर्हसि। मत्कारणात्ते सद्मनि समुत्पन्नमिमं कलहं नाहं क्षमे” इति।

तं साक्षादवलोक्य स आरक्षकाधिकारी परं प्रहर्षमवाप। स च सत्वरं कटितटाल्लघुभुशुण्डिकामादाय जगर्ज— “उद्धर ते हस्तौ” इति।

“एष खल्वस्मद्गृहातिथिः। अस्य बाधनं नैव न्याय्यम्” इति ब्रुवाणा सा पत्युर्हस्तं ग्रहीतुं प्रावर्तत। आरक्षकाधिकारी च तां प्रसभं निरस्य गोलिकां प्रयोक्तुमुदतिष्ठत्। तावत्येव सा तद्धस्ताद्भुशुण्डिकां बलादाच्छिद्य प्रोवाच— “पञ्चाशत्सहस्ररूप्यकाण्येव तेऽपेक्षितानि खलु? तर्हि गृहाण तानि। परन्तु त्वया क्रियमाणेऽस्मिन् महापापे नाहमंशभाग्भवितुमुत्सहे” इति। इत्युक्त्वा स्ववक्षस्येव गोलिकां मुमोच। तस्या वक्षःस्थलादसृग्धारा प्रास्रवत्। सा च तत्रैव प्राणैर्व्ययुज्यत।

ततो नानासाहेबः पुरोगत्य तस्याः शोणितेन स्वललाटे तिलकं विरच्य जगाद— “भो आरक्षकाधिकारिन्! मां निबध्य त्वं स्वकर्तव्यं पालय” इति।

तदा स आरक्षकाधिकारी सविषादं प्रत्यभाषत— “अवगतमद्य मया किं मे यथार्थं कर्तव्यमिति। समर्पितमेवेतः परं मे जीवनं मातृभूमिसेवायै। अचिरादेवेतो निर्गत्य त्वमात्मानं गोपाय। अहमप्यत्र यद्यत्करणीयं तत्सर्वं निर्वर्त्य देशसेवामार्गमेवानुसरिष्यामि” इति।

Search
stories/298.txt · Last modified: 2026/09/16 12:43