You are here: Home » stories » 3

वितण्डाशमनम्

आसीत् खलु महेन्द्रनाथगुप्ताख्यो रामकृष्णपरमहंसदेवस्यान्तेवासी। स च प्रकृत्या वितण्डाप्रियः, यो हि कमपि विषयमवलम्ब्य गुरुणा समं प्रतिक्षणं विवदते स्म। अथैकदा स तं गुरुं पप्रच्छ - “भगवन्, किंस्विदीश्वरः साकार आहोस्विन्निराकारः?” इति। “उभयथापि स विद्यते। यत्रैव ते मतिर्विश्राम्येत्, तदेव रूपमुपासितुमर्हसि” इत्याचार्यो व्याजहार। “यद्यपि नामेश्वरः साकारः स्यात्, तथापि न खलु स मृण्मयः पाषाणमयो वा भवितुमीष्टे” इति महेन्द्रनाथोऽभ्यधात्। “मृदादिष्वपि तं चिद्घनमेवावलोकय” इति गुरुः प्रत्युवाच। “ये तु केचन प्राकृता जना मृदादिबिम्बमेव परं दैवतमभिमन्यमानाः पर्युपासते, ते नूनमज्ञा अविवेकिनश्च। अहो, बुबोधयिषामि तान् यथेश्वर एवाराध्यो न तु मृण्मयी प्रतिकृतिरिति।”

“अये, त्वद्विधानामात्मनं पण्डितंमन्यानां कीदृशोऽयमुत्साहोऽन्येषां प्रबोधने। आत्मानं कथं संस्कुर्याः, कथं वा निजान्तःकरणे ज्ञानदीपं ज्वालयेरिति नैव चिन्तयसि। येनेदं जगन्निर्ममे, येन च वृष्टिसस्यादिकं विससृजे, येन मातापितृप्रभृतिषु प्रीतिवात्सल्यादिकमादधे, स एव परमेश्वरः कालेनाज्ञेष्वपि ज्ञानमुद्भावयिष्यति। सर्वं यो वितेने, किं स एतावन्मात्रं विधातुं न प्रभवेत्? पात्रापात्रतां विचार्य स तथैव विदधीत। अतस्त्वं तावदात्मसंस्कारायैव प्रयतस्व।”

“भवतु नाम। तेषां प्रबोधनचिन्तामहं परित्याक्तोऽस्मि। तथापि यत्ते मृदादिबिम्बान्यर्चयन्ति, तत्सर्वं निष्फलमेव खलु?” इति महेन्द्रनाथः पुनरन्वयुङ्क्त।

“न, न व्यर्था। मृच्छिलाकाष्ठलौहादिमयीनां प्रतीमानामाराधना तेनैव परमेश्वरेण व्यधायि। यथा जननी शिशूनां जाठराग्निबलमनुसृत्य भोज्यं कल्पयति, तथैवासौ भगवानधिकारिणां योग्यतामनुरुध्योपासनारीतीर्व्यवस्थापयति। तस्मान्न कोऽपि पन्था निष्प्रयोजनः। अतः स्वस्मिन्नेव ज्ञानदीपं ज्वालयितुं, परं तत्त्वं दिदृक्षितुं, आत्मनः श्रेयसे घटितुमेव ते यत्नो भूयात्। यो ह्यात्मानमनुद्धृत्य परानुपदेष्टुं समीहते, तस्य स प्रयासस्तु वन्ध्य एव जायते” इति परमहंसो विवृणुत।

इत्थं गुरुणा सम्यक्प्रबोधितो महेन्द्रनाथस्तदुपदिष्टं सर्वं मनसि निध्याय तस्मादाश्रमात् प्रतस्थे।

Search
stories/3.txt · Last modified: 2026/01/17 14:36