परमानन्दस्य निदानम्
जातुचिन्मगधाधिपः श्रेणिको नाम सार्वभौमः कारुण्यपारावारं भगवन्तं सुगतं दिदृक्षुरुपाजगाम। तच्चरणारविन्दयोः सप्रश्रयं प्रणिपत्य स पप्रच्छ—भगवन्, मदीये सौधे निखिलान्यपि सुखसाधनानि सञ्चितानि। परिचारकव्रातः, चतुरङ्गिणी चमूः, स्यन्दनादिवाहननिवहः, स्वादुतमभोज्यपदार्थसन्ततिः, नानाविधा विलासाश्चेत्येवमादिसर्वसम्पत्समृद्धावपि मे चेतो न मनागपि मोमुद्यते। भवतस्तु भिक्षवः पदचारेणैवावनीं पर्यटन्तो, यदृच्छया प्राप्तं भैक्ष्यमश्नन्त उटजेषु महीरुहच्छायासु वा स्वपन्तोऽपि नित्यप्रहृष्टवदना एव विलोक्यन्ते। कुतोऽयमाश्चर्यकरो विपर्यास इति।
तदाकर्ण्य स्मितपूर्वं तथागतो जगाद—“राजन्, निष्किञ्चनानामेव जीवने प्रमोदः पदं करोति, न तु वित्तमदान्धानां महाधनानाम्” इति।
“निष्किञ्चना ननु कार्पण्योपहतचेतसो याचका अपि। तत्कथं तेषां मुखकमले न कापि मुदुल्लसति?” इति महीपतिरन्वयुङ्क्त।
भगवान् प्रत्युवाच—“दारिद्र्योपहतं हि याचकानां जीवनम्। नाभावपीडितं जीवितं शर्म सम्पादयितुमीष्टे।”
“ननु भवतः श्रमणा अप्यभावग्रस्ता एव? तेषां जीवने तादृक्किं विशिष्टं तत्त्वं विद्यते?” इति भूयोऽप्यपृच्छच्छ्रेणिकः।
“नैव तेषामभावग्रस्तं जीवनम्, अपि तु सर्वथा त्यागमयमेव। यदनायासेनासादितं तस्य स्वेच्छया विसर्जनमेव हि परमोत्कृष्टस्त्यागो उच्यते। अलाभेन हि याचकः कार्पण्यमनुभवति। यदि कथञ्चित्किञ्चिल्लभेत्, तर्ह्यशेषमप्युपादातुं स सन्नह्येत्। न तथा खल्वमी भिक्षवः। अनर्घ्यरत्नलाभेऽपि तेषां नैस्पृह्यमेव विजृम्भते। यस्य हि चेतसि त्यागवृत्तिरुल्लसेत्, स एव परमां मुदं समश्नुवीत। विषयोपभोगतृष्णा सङ्ग्रहलोलुपता च न जातु शर्म सम्पादयतः। लब्धेष्वसन्तुष्टिः, अधिकार्थलिप्सया मनस आकुलता, सञ्चितानां रक्षणे महती चिन्तेत्येवमादयो विकारा एव मानवं सन्तपयन्ति।”
“यद्येवं, तर्हि राजहर्म्यवासिभिरस्माभिरपि सर्वस्वं परित्यज्य भैक्ष्यचर्यैवाश्रयणीया किम्?” इति नृपः पप्रच्छ।
सुगतो व्याजहार—“त्यागसिद्धये भिक्षुव्रतमेवावलम्बनीयमिति न मयोदितम्। श्रमणजीवने न केवलं त्यागः, प्रत्युत निर्वाणाधिगमाय विविधाः कठोरा नियमाश्च परिपाल्यन्ते। प्रशान्तिलाभाय तु प्रासादे वसन्नपि त्वं त्यागमयं जीवनं यापयितुं शक्नुयाः। इन्द्रियचापल्यनिग्रहः, विलासेषु मन्दायमानोऽनुरागः, भोगसाधनानां परिमितोपयोगः, करुणामैत्र्यादीनां शीलनम्, यदृच्छालाभसन्तुष्टिः, औदार्यम्, अप्राप्तविषयेष्वनासक्तिरित्येवमादय इमे सद्गुणा यदि त्वया सम्यगनुष्ठीयेरन्, तर्हि राजसौधेऽपि परमानन्दमधिगच्छेः। मानसवृत्तिमेवावलम्ब्य हि सन्तोषो विजायते।”
अपूर्वं किमपि परमसत्यं जज्ञिवानिव मगधेश्वरोऽनिमिषलोचनाभ्यां भगवतो मुखारविन्दं निध्यायन् तूष्णीमवतस्थे।