ईर्ष्यादिदुर्गुणभारोद्वहननैष्फल्यम्
ज्ञानामृतवर्षणावसरे जातु कश्चिन्महामहिमोपेतस्तत्त्वदर्शी विनेयान्निदिदेश—“येषु येषु जनेषु युष्माकममर्षो मात्सर्यं वा भृशं जाज्वल्यते, तत्सङ्ख्याकान्येवालुकान्याहरत। एकैकस्मिंश्च कन्दे तत्तद्विद्विष्टजनस्य नामाङ्कयध्वम्” इति।
परेद्युश्चाज्ञामनुवर्तमानास्ते शिष्या आलुकान्यादाय समाजग्मुः। केनचित्पञ्च, अन्येन दश, इतरेण ततोऽप्यधिकानि समानीतानि। गुरोः पुरस्तात्तानि सर्वाण्यालुकानि राशीकृतानि। ततोऽसौ मुनिप्रवरः पुनरुवाच—“यावन्त्यालुकानि युष्माभिराहृतानि, तावन्ति सर्वाण्येकस्मिन्नेव प्रसेवके निक्षिपध्वम्। सप्ताहमभिव्याप्य स आलुकपूर्णप्रसेवको युष्माभिरंसदेश उद्वोढव्यः। शयनासनभोजनादिष्वपि स स्यूतः पार्श्व एव निधेयः” इति।
निगूढमस्या आज्ञायास्तात्पर्यमज्ञात्वैव गुरोर्वचनमतिक्रान्तुमपारयन्तस्ते शिष्यास्तमालुकस्यूतमुद्वहन्तः सप्ताहमतिवाहयामासुः। एतदन्तराले कुथितत्वमुपगतानि कानिचनालुकानि तीव्रपूतिगन्धं ववमुः। भारातिशयादादिनं तेषामुद्वहनमपि नितान्तं क्लेशाय कल्पते स्म। अथापि महता कष्टेन तत्सर्वं ते विषेहिरे।
सप्ताहात्यये स मुनिस्तान्सर्वानन्तेवासिन आजुहाव। ‘मत्पुरस्तान्निधत्त तानिमान्प्रसेवकान्’ इति चादिदेश। गुरुणा यथोक्तं तथैव चक्रुस्ते सर्वे। अंसदेशाद्व्यपगते तस्मिन्कष्टप्रदे स्यूते ते परमां निर्वृतिमुपजग्मुः।
ततस्तान्स जगाद मुनिः—“सप्ताहमात्रमप्येतेषामुद्वहनं युष्माकं भृशं क्लेशायाभूत्। तेभ्यः प्रादुर्भूतः पूतिगन्धस्त्वसह्य एवासीत्। साम्प्रतं भारस्य दुर्गन्धस्य च व्यपगमाद्यथा यूयं परमां निर्वृतिमनुभवथ, जानीत तथैवेर्ष्यादयश्चित्तदोषा अप्येतेषां कुथितालुकानां समानधर्माणः। यावज्जीवं तान्दुर्वहान्वयमुद्वहामः। तेभ्यो निःसरन्दौर्जन्यदुर्गन्धोऽन्यान्नितान्तं परितापयति। अथापि मोहान्धा वयमविद्वांसस्तन्न बोद्धुमीश्महे। यदि ते मानसा दोषा निरस्येरन्, तर्ह्यालुकत्यागादिव महती शान्तिरुदियात्। प्रभवथ चेत्, सर्वानपि प्राणिनः प्रेमार्द्रया दृष्ट्या पश्यत। तदा हि मानसं निर्भारं प्रशान्तं परितृप्तं च स्यात्। मात्सर्यादिमलपरित्यागे सति जीवनमपि स्फटिकामलमाविर्भवेत्। यदि पुनर्द्वेषादयो दुर्गुणाः सततं मनस्युपलाल्येरन्, तर्हि चेतसो जाड्यं, ततश्च युष्माकममूल्यस्य जीवनस्यैव शोचनीया दुर्गतिरापतेत्” इति।
“अवितथमेव व्याहृतं त्वया योगिन्! अस्याविमृश्यकारिताया दारुणममुं परिणाममविजानन्तो वयमीर्ष्यादिमलमाजीवमुद्वहन्तोऽमूल्यमेतज्जन्म वृथैव क्षपयामः” इति कश्चिद्भक्तः सविनयं प्रोवाच।
तदाकर्ण्य स मुनिः सस्नेहं मन्दस्मितं ततान।