You are here: Home » stories » 319

तत्त्वविवेचनम्

जाह्नवीजलेष्ववगाहमानः कश्चिद्विपश्चित् “मातुः प्रीतिः परा लोके बलं भ्रातुः परं मतम्। किरणा हि परं ज्योतिः परं गङ्गोदकं ध्रुवम्॥” इतीमं श्लोकमुज्जगाद। तस्मिन्नेवावसरे वासांसि निर्णेजितुं तत्र सम्प्राप्ता काचन वामभ्रूस्तमाकर्ण्य जहास।

न्यक्कारममुमसहमानः स विद्वदहङ्कारग्रस्तो ग्रामाधिपं समुपगम्य चुक्रोश। ततो ग्रामाधिपस्तां प्रमदामानाय्य पप्रच्छ- “किन्निमित्तं त्वया धीमतोऽस्यावज्ञा व्यधायि?” इति।

तदा सा योषिदुवाच- “नाहं जातुचिदप्यमुं विपश्चिद्वरेण्यमवामंसि” इति।

“अद्य स्नानावसरे मयोदीर्यमाणं श्लोकमाकर्ण्यावज्ञया हसन्त्या त्वया किं नाहमवमतः?” इति रोषारुणितनेत्रान्तः स प्रजगर्ज।

“त्वयोदीर्यमाणं श्लोकमाकर्ण्याहं जहासेति तु सत्यमेव, यतस्तस्य श्लोकस्याशय एवोपहासास्पदमासीत्” इति सा प्रत्युवाच।

“किं वा मातुर्वात्सल्यं न गरीयः? किं वा भ्राता न बलवत्तरः? किं वा भानुमरीचयो न ज्योतिर्मयाः? किं वा भागीरथीजलं न पावनम्?” इति स पर्यपृच्छत्।

“त्वदुदीरितानां महिमा भवेन्नाम। किन्तु ततोऽपि गरीयांसि तत्त्वान्तराणि सन्त्यस्मिञ्जगति। यदि तातपुत्रयोर्मिथो विग्रहः समुदियात्, तदा माता न पुत्रपक्षं भजते, अपि तु कलत्रमेव। अत एव 'पत्न्याः प्रीतिः परा लोके' इति। यदा वैरिणोऽभियुञ्जीरंस्तदा भुजदण्ड एव बलायते। अत एव 'बलं बाह्वोः परं मतम्' इति। यदि लोचने न स्याताम्, तर्हि जीवनमेवान्धतामिस्रनिमग्नं स्यात्। अत एव मयोच्यते- 'दृष्टिशक्तिः परं ज्योतिः' इति। यदि जीमूतो वर्षेत्, तर्ह्येव प्राणिनां जीवनं प्रवर्तेत। अत एव 'परं मेघोदकं ध्रुवम्' इति वचनमेव समञ्जसतरम्” इतीत्थं सा वामलोचना विशदीचकार।

तस्यास्तद्वच आकर्ण्य तत्रत्याः सर्वेऽपि साकमनुमोदनेन शिरांसि दुधुवुः।

Search
stories/319.txt · Last modified: 2026/10/08 12:15