प्राणात्ययेऽप्यस्खलितमार्यचरितम्
पराधीनतापाशबद्धाया भारतभुवः प्रावर्तत पुरा किल वैदेशिकानामाङ्ग्लप्रभूणामाधिपत्यकालः। तस्याः पारतन्त्र्यशृङ्खलाया विमोचनायोदञ्चति स्म सर्वतोदिशमदम्यः पौराणामुत्साहप्रकर्षः। जिज्ञापयिषन्त्यः निजहृदयाकूतममून्प्रशासितॄंस्तत्र तत्र समेयुष्यः प्रकृतयः स्वातन्त्र्यसमरमातन्वानाः सातत्येन चेष्टन्ते स्म। अहिंस्र एव प्रायशो बभूवायमभियानप्रसरः, कादाचित्कस्तु प्रकोपावेशादुग्रहिंसाकलुषितोऽप्यजायत। प्रवृत्ते चैकदा तादृशे चण्डे जनसङ्क्षोभे, पञ्चत्वमगात्कश्चन राजपुरुषधुरन्धरः। अमर्षितैस्ततो राज्याधिकृतैस्तस्य सङ्घर्षस्य धुर्यो निगडितः सन् धर्माधिकरण उपास्थापि।
नवयौवनोद्भासितवपुः खल्वासीदसौ जननायकः। प्रचलन्त्यां तु व्यवहारविचारणायामन्तरेव सहसा प्रविष्टा काचिदाङ्ग्लतरुणी धर्मासनासीनं प्राड्विवाकमभ्यर्थयत—“पिपृच्छिषाम्येनमभियुक्तं किञ्चिदहम्, अतो मह्यं प्रश्नायानुज्ञा प्रदीयताम्” इति।
‘किंस्विदेषा प्रष्टुमीहेत?’ इति संशयानोऽधिकरणाध्यक्षस्तस्यास्तमभ्यर्थनानुबन्धमन्वमंस्त।
अभिमुखीभूय तमभियुक्तं ततो लब्धानुज्ञा सा ललना पप्रच्छ—“अयि तरुण! आग्नेयास्त्रनिपातेन राजपुरुषमुख्यस्य प्राणवियोगानन्तरमप्यवशिष्यन्ते स्म एव तव भुशुण्ड्यां तिस्रः प्राणहराः सीसकगुलिकाः। ताभिर्मामपि निहत्य निराबाधमपक्रान्तुमशक्ष्यस्त्वम्। अकृत्वा तु तदीदृशं कर्म, कथमेवात्मनो निग्रहमकृथाः?” इति।
अक्षोभ्यधीरसौ तदा जनधुर्यः प्रशान्तगिरा प्रत्युवाच—“आर्ये! भगिनि! भारतभुवः खलु वयं कुलपुत्राः स्मः। न जातु विद्यतेऽस्माकं कुलाचारे प्रमदाजने शस्त्रसमुद्यमः। अत एव मया त्वं नैवाभिहतासि” इति।
“राजपुरुषप्रवरस्य प्रमापणाद्ध्रुवमेव ते प्राणदण्डो भवितेति नूनमवगच्छेरेव त्वम्। तथापि पलायनायात्मप्रमापणाय वा कस्मान्नायतथाः?” इति पुनरपि तमन्वयुङ्क्त सा तरुणी।
“धर्माधिकरणेऽस्मिन्सकलजनसमक्षं निजमनोगतमाविष्कर्तुं कामयेऽहम्। अत एव स्वेच्छयाङ्ग्यकारि मया काराबन्धनम्” इत्यकम्पितधैर्यं स बभाषे।
अनेन तस्योदात्तप्रतिवचनेन बाष्पाम्बुपूर्णे बभूवतुस्तस्यास्तरुण्या लोचने। उद्वेलभावावेशेन च निरुद्धवाग्वृत्तिरजायत तदीयः कण्ठः। सा च तं प्रत्यगाधां स्वकृतज्ञतामभिव्यञ्जयाञ्चकार
अपि नाम ज्ञायते, कोऽसावासीन्निगडितः सत्त्वराशिः पुरुषधौरेय इति?
अयमेवासीद्विप्लववीरवरः स ऊधमसिंहः। अध्यरोप्यत च तस्मिन्ड्वयरनाम्नः वधाभियोगः। अमुष्या एव तरुण्याः सांनिध्येनासावबध्यत। विवेद च स ऊधमसिंहः केयमिति। तथाप्यमुष्यै नासूयन्नक्रुध्यंश्च, तामघ्नन्नेव स स्वकुलधर्मानुरूपं पूर्वोक्तमुत्तरं प्रास्तौषीत्।