You are here: Home » stories » 334
← 333 
 335 →

मातैव परं दैवतम्

उवास किल कस्मिंश्चित्पुरवरे शोचनीयदशेन जनकेन साकं सदानन्दो नाम कश्चन सुकुमारो माणवकः । अकिञ्चनतमो हि दैवप्रतिकूलतयासावस्य तातो बभूव । नाविद्यत खलु दारिद्र्यविधुरस्यामुष्य वेश्मनि प्राणयात्राकल्पनाय काकिणीमात्रमपि वसु ।

अटाट्यमानस्त्वेकदैकाकी स बालः परिमलोद्गारिणं कमपि माल्यापणमाससाद । चिक्रीषुरभूदसौ तत्रत्यानि नयनमनोहराणि प्रसूनानि । किं तु रिक्तपाणेरस्य पार्श्वेऽल्पीयानप्यर्थो नावर्तत । अत एवाधिव्याकुलितचेताः स सुमनोनिकरमनिमेषमीक्षमाणस्तत्रैव निस्पन्दोऽतिष्ठत् । बाष्पाम्बुपरिप्लुते च झटित्यमुष्य नयनकुवलये संबभूवतुः ।

अथ नातिचिरान्मार्गेणामुनातिक्रामन्कश्चन करुणार्द्रहृदयो महाभागो दीनवदनमिमं ददर्श । उपेयिवांश्चास्यान्तिकं सानुक्रोशमप्राक्षीत्स पुण्यश्लोकः, अयि वत्स, कस्माद्धेतोरित्थं रोरुद्यसे, का वा दुरवस्था सुकुमारं ते मानसं दुनोतीति ।

बाष्पगद्गदया गिरा तं प्रत्यवादीदसावर्भकः, लिप्सेऽहमेकां रुचिरां प्रसूनस्रजम्, किं त्वकिञ्चनस्य मे हस्ततले वराटकोऽपि नोपलभ्यत इति ।

सजातोत्कण्ठः स सभ्यः पुनरप्येवममुं पप्रच्छ, वत्स, किमर्थं त्वमीदृश्यै माल्यस्रजे स्पृहयसि, कस्मै वाभिमताय जनाय प्रतिपाद्येयमिति ।

जगाद स माणवकः, अम्बायै मम परमां मुदमाधातुमिमां कुसुममालिकां दित्साम्यहमिति ।

वात्सल्यरसार्द्रचेताः सोऽवदातचरितो महाभागस्तत्क्षणादेव तां प्रसूनस्रजं क्रीत्वा बालकायामुष्मै प्रादात् । अनुगृहीतोऽस्म्यमुनौदार्येण महाभाग, स्वस्ति तेऽस्त्विति कृतज्ञतापुरःसरमुदीर्य प्रतस्थे ततः स दारकः । तदालोक्य स पुण्यजनो बभाषे, भद्रमुख, कतमस्मिन्देशे निवसति तव जनयित्री, अहमेव त्वां तत्र नेतास्मि, तदेहि, अध्यास्स्वेदं मदीयं प्रवहणमिति । प्रहर्षोत्फुल्ललोचनः सोऽर्भकस्तस्य महात्मनः प्रवहणमधिरुह्य प्रयाणपद्धतिमदर्शयत् । अचिरादेव च तौ चिताधूमधूसरितस्य कस्यचन पितृवनस्योपकण्ठमुपेयतुः ।

भीषणं तं प्रेतावासमालोक्य किमर्थमनेन शिशुनेमं दारुणं प्रदेशमहमानीत इति सवितर्कं विमृशन्स पुमानपृच्छत्, वत्स, अस्मिन्प्रदेशे क्व नु खलु वर्तते तव प्रसूरिति ।

अकपटमुग्धभावेन स कुमारक आचचक्षे, सुरलोके निवसति मे जननी, ततोऽहमपि तत्रैव जिगमिषुरस्मीति ।

परमविस्मयाविष्टचेताः स महाभागोऽवादीत्, अयि मुग्धबाल, पितृवनं खल्विदं वर्तते, न तु सुरलोक इति ।

तदा दृढश्रद्धः स शिशुरुच्चचार, यत्रैवास्ते मम जननी, तत्रैव खलु त्रिदिवम्, अस्मिन्नेव हि भूतले मदीयाया मातुः पञ्चत्वमगात्, ततश्चेहैवासौ नित्यं सन्निधत्ते, यस्मिंश्चोद्देशे साधिवसति स एव मम नाकलोकः, प्रत्यक्षं हि मे दैवतमम्बेति ।

निशम्येदं मर्मस्पृग्वचश्चित्रार्पित इव स्तम्भीबभूव स पुण्यात्मा । अचलितमूर्तेश्चास्य लोचनयुगलादविरलमुष्णानि बाष्पवारीणि प्रास्यन्दन्त ।

न खलु विद्यते भुवनेऽस्मिन्मातृसदृशमन्यत्किमपि पावनतमं वस्तु । मातैव हि देहिनां प्रत्यक्षं परं दैवतम् । तथा हि सुरलोकादपि गरीयसी खलु सकलभुवनवन्द्या जननी ।

← 333 
 335 →
Search
stories/334.txt · Last modified: 2026/10/24 09:02