You are here: Home » stories » 342
You are not allowed to perform this action
← 341 
 343 →

अप्रस्तुतमीमांसाविपाकः

अध्वानमतितरन्तावेकदा कश्चिदुपाध्यायस्तदन्तेवासी चैकतुरङ्गमाधिरूढौ प्रजग्मतुः। अस्ताचलचूडावलम्बिनि च दिवाकरे, क्रमेण तिमिरपटलावगुण्ठिते गगनमण्डले त्रियामा समजनि। अथाध्वोपान्तवर्ति किञ्चिद्विशीर्णकुड्यं जरद्गृहममू रजनीवासायाशिश्रियताम्। तत्र चाध्वक्लमविधुरो देशिकः शिष्यमाबभाषे — “वत्स, ग्लानगात्रो निद्रालुरहमिदानीं संविशामि। अमुष्मिंस्तु शाखिनि सन्दितमेनं तुरङ्गममप्रमत्तस्त्वं गोपाय” इति।

“भगवन्, लोचनयुगलमास्कन्दन्त्यास्तन्द्राया अपनुत्तये कः खलूपायो मयाश्रयणीयः?” इति सविनयमसौ माणवकोऽन्वयुङ्क्त।

“कञ्चन विषयं मनसा विमृशन्नेवास्स्व; एवं सति न त्वां निद्रा प्रबाधिष्यते” इत्यादिदेश तमुपाध्यायः। बाढमिति च सोऽन्तेवासी तदादेशं शिरसा प्रतिजग्राह।

अथ कियत्यपि व्यतीते काल ईषदुन्मीलितलोचनः स देशिकस्तमपृच्छत् — “अयि वत्स, कमर्थमधिकृत्येदानीं मीमांससे?” इति।

“गुरो, गगनतलमलङ्कुर्वाणान्यमूनि ज्योतींषि किं स्वयमेव प्रादुर्बभूवुः, आहोस्वित्केनापि विधात्रा वियति खचितानि स्युरिति वितर्कयामि” इति स प्रत्यभाषत।

तदाकर्ण्य स गुरुः पुनरपि गाढनिद्रावशमगात्। द्वित्रमुहूर्तापगमे च पुनः प्रबुद्धः स तमन्वयुङ्क्त — “अधुना तु कस्मिन्वस्तुन्याहितमना असि?” इति।

“भगवन्, पयोनिधिसलिलमदः किं स्वभावादेव क्षाररसमजनिष्ट, उताहो केनापि महार्णवे लवणराशिरावपित इति विचिन्तयन्नस्मि” इति स जगाद। तच्छ्रुत्वा चाविचलितजागरं शिष्यमवेक्ष्य परितुष्टमना उपाध्यायः सुखं सुष्वाप।

अथ क्रमेण गलिते शर्वरीतमसि, अरुणकिरणपाटलीकृते च प्राचीमुखे प्रत्यूषः समजृम्भत। अखण्डितजागर एव तदाप्यास्त स माणवकः। ततश्च संस्तरादुत्थाय देशिकस्तमपृच्छत् — “वत्स, सम्प्रति किं नाम विचिन्त्यते त्वया?” इति।

“भगवन्, अमुष्मिन्पादपे सन्दितोऽसौ तुरङ्गमो न खलूपलभ्यते। तत्किमसौ स्वयमेव पाशादुन्मुक्तः पलायिष्ट, उताहो केनापि तस्करेणोन्मुच्यापनीतः स्यादित्यद्यापि मीमांसमानोऽस्मि” इति स निरुद्वेगं न्यवेदयत्।

अन्तेवासिनस्तमीदृशमविवेकविभ्रममाकलय्य, किमत्र स्मेतव्यमुताहो शोचितव्यमिति किंकर्तव्यतामूढः स देशिको वाचोयम एवासाञ्चक्रे।

← 341 
 343 →
Search
stories/342.txt · Last modified: 2026/11/06 13:02