आत्मप्रत्ययसिद्धिः
आजुह्वे कदाचिदुद्दामवैरिबलजिगीषुः कश्चन क्षितिपतिः स्ववरूथिनीभटेष्वन्यतममादिदेश चैनम् — “अयि साम्परायधुरीण, द्रागेव त्वमदः प्रत्यनीककटकमवगाह्य तच्चमूनायकं जीवग्राहं गृहीत्वा गतासुं वापाद्यानीय मत्पुरस्तादुपस्थापय” इति।
तदिदं पार्थिवशासनमुपाकर्ण्य साध्वसवेपितवपुरसौ भटः सवैक्लव्यमवादीत् — “अतिशयितबाहुद्रविणो हि देव स प्रत्यर्थिवाहिनीपतिः प्रकृष्टधीवैभवश्च। कथङ्कारं नामाहमेकाकी तादृशं दुर्धर्षं पुरुषमाहर्तुमीशीय? तत्प्रसीदतु स्वामी, मया सार्धं त्रिचतुराः सहाययोधाः प्रस्थाप्यन्तामनुकम्पया” इति।
इतीदं निशम्य महीपतिः — “मा मैवम् ! न खलु कश्चन त्वया समं सम्प्रेषयिष्यते। त्वयैवैकाकिनानन्यसहायेनेदं कृत्यमवश्यं संसाधनीयम्” इति निश्चिताशयः प्रत्यभाषत।
भूयोऽप्यसौ कातरचेता भटः कतिपये सहाययोधाः सम्प्रेषणीया इत्येव सप्रश्रयं पार्थिवमभ्यर्थयत।
अथेमं सोल्लुण्ठमुपहसन्नवनिपतिरवोचत् — “कीदृशो नाम त्वमायुधीयः? यस्तावदकृत्रिमः शस्त्रजीवी स्यात्, स खलु स्वभुजवीर्यमेवावष्टभ्य स्वाधिकृतं कर्म स्वयं निर्वर्तयेत्, न जातु कस्यचन परस्य साहाय्यमपेक्षेत” इति।
'कीदृशो नाम त्वमायुधीयः?' इति मर्मस्पृशं पार्थिवानुयोगमुपाकर्ण्योद्बुद्धस्वाभिमानः स भटः — 'प्रकाशयितव्यमेव मया निजं पौरुषप्रकर्षम्' इत्यन्तःकरणे दृढं सङ्कल्पं बबन्ध। ततश्चाकृतप्रत्युक्तिरेवासौ जवनं तुरङ्गममधिरुह्योद्दामोत्साहभरितो द्विषत्कटकमभि प्रतस्थे।
नातिचिरो व्यतीयाय कालः। निशितशस्त्रक्षतवपुषं कञ्चन पुरुषं वाजिपृष्ठेऽध्यारोप्य प्रत्यावृत्तः स योधो नृपतिं प्रणनाम। असौ हि क्षतगात्रः पुरुषः प्रत्यनीकवरूथिन्याः स एव दुर्धर्षः सेनानीरासीत्, न खल्वपरः।
तदालोक्य परां मुदमुपेयिवान्प्रीतिफुल्ललोचनो महीपालस्तमभ्यभाषत — “साधु भोः समरधुरन्धर, साधु ! इदानीं त्वयावधारितं ननु — यो हि परसाहाय्यमनपेक्ष्य स्वाधिकारे सोद्यमः प्रवर्तते, स एव मनोरथसिद्धिं समश्नुत इति। यश्चाप्रकम्प्येनात्मस्थैर्येण स्वात्मप्रयत्नेन च कार्यैकतत्परः सन्नभ्याक्रामति, न कदाचिदप्यसौ वैफल्यमनुभवति” इति।
“अवितथमेवैतद्देव” इति ब्रुवाणोऽसौ शस्त्रभृत्सप्रश्रयं प्रह्वीभूय क्षितिपतिं ववन्दे।
अमुष्य तु लोचनयुगले स्वात्मप्रत्ययोज्ज्वला काचनापूर्वा तेजःस्फूर्तिरालुलोके तदा नृपतिना।