You are here: Home » stories » 346

आत्मरुचिवशंवदः शास्त्रार्थपरिग्रहः

पुण्यतीर्थनिषेवणाय पुरा किलैकप्राणौ कौचित् सखायौ देशाद्देशान्तरं प्रतस्थाते । दुरवगाहे त्वध्वनि विभ्रान्तवर्त्मानौ बहून्यहान्यटव्यां क्षुदनलपरिक्षामकुक्षी अमू इतस्ततो बम्भ्रम्यमाणौ कथं कथमपि कञ्चन ग्राममासदताम् । प्रतोलीमनुक्रामन्तौ च तौ कस्यचिद्वेश्मनोऽङ्गणे तुमुलं जनसम्बाधमद्राष्टाम् । प्रावर्तत हि तत्र देवतासपर्यायाः परिसमाप्तिदिवस इति कृत्वा ग्रामण्योपकल्पितमन्नदानसत्त्रम्, यत्र समन्तात् प्रतिवेशिग्रामेभ्यो भूरिशो जानपदाः समाजग्मुः ।

तत्राभ्युपागताविमावप्यतिथी ग्रामणीः प्रश्रयपुरःसरमर्चयित्वाभ्यवहरणाय भोक्तृपङ्क्तावुपवेशयाञ्चकार । पुरस्ताच्चैनयोर्न्यधायि पर्णस्थाली, पर्यवेषि च सूपकारैर्बहुविधममृतकल्पमन्धः । प्राक् च प्राशनात् समेता भोक्तारः ‘युक्ताहारविहारस्य… योगो भवति दुःखहा’ इत्यादिकाः श्रीमद्भगवद्गीतायाः श्लोकपद्धतीः सममुदचारयन् । तदुपश्रुत्य तयोरेकतरः — ‘सत्यं तावच्चिरस्येदृशं सुधास्यन्दि भोज्यमावाभ्यामासादितम्; तथापि दुर्लभमिदमुपनतमिति कृत्वा यद्यतिमात्रमश्नीयाम्, तर्हि मे तीर्थयात्रायामन्तराय आपतेत्, तेन च नियमसङ्कल्पो मे विहन्येत’ इत्याकलयन् परिमितमेवाहारमाददानः सखायमपि तदेव स्मारयामास ।

अथ मुहूर्तादेव सत्त्रिणः ‘अहं वैश्वानरो भूत्वा… पचाम्यन्नं चतुर्विधम्’ इति भगवद्वचः सममुदैरयन् । तदाकर्ण्य तयोर्द्वितीय उत्फुल्ललोचनो जहर्ष । ‘अन्तर्जठरमधिवसन् वैश्वानरमूर्तिः स्वयं भगवानेवाभ्यवहृतमन्नं जरयति । चिररात्राय च लब्धमिदमशनम्; इत ऊर्ध्वं पुनः कदा लभेयेति न वेद्मि । तदद्य तावदाकण्ठं प्रकामं च भोक्तव्यं मया’ इति संचिन्त्य स औदरिकः कुक्षिम्भरिर्भूत्वातीव प्रभूतमन्धोऽभ्यवजहार ।

अतिभोजनदोषात्त्वचिरादेव स तीव्रशूलार्दितोदरः पर्याकुलो महीतले लोलुठ्यमान आचुक्रोश — “अहो, वितथमेव भगवान् गीतासु भाषते ! ‘पचाम्यन्नं चतुर्विधम्’ इत्यनेन वचसा लोकं विप्रलभते च । मृषावादी खल्वसौ…” इति ।

तामेतामस्य दुरवस्थामालोक्य सहाध्वगस्तमवादीत् — “वयस्य, नैवान्यथा भवति भगवतो भारती । ततः प्रागेव हि वासुदेवो युक्ताहारविहारस्यैव योगो दुःखहा भवतीत्यप्यवोचत् । त्वं तु तद्वचो मनसि नाधाः । अयुक्तः खल्वाहारो दुःखायैव सम्पद्यते । तदवितथमेवाभाणि भगवता” इति ।

नूनमवितथमेतद्यदिह जगति जन्तव आत्मनो रुच्यनुविधायिन एव शास्त्रोपदेशानुपाददत इति !

Search
stories/346.txt · Last modified: 2026/11/06 13:56