विवेकवन्ध्यं शुकपाण्डित्यम्
अध्युवास पुरा कञ्चन नानाविहगकलकूजितमविरलतरुच्छायशीतलं कान्तारप्रदेशं शमदमपरायणः कश्चित्तपोधनः । अपत्यनिर्विशेषं स्वाश्रमोटजाङ्गने कतिपयान्मरकतहरितगरुतोऽरुणचञ्चुपुटान्कीरशावकानसौ संवर्धयाम्बभूव । अपायपरिजिहीर्षया च स एनानिममात्मत्राणमन्त्रमपीपठत् — “यदा कोऽपि मर्त्यो वो नयनपथमायायात्, तदैव यूयमित्थं सममुच्चारयेत — 'उपसर्पति लुब्धकः, प्रतनोति च वागुराम्, न तु वयं तामुपेयाम' इति” । ततः प्रभृति यस्मिन्कस्मिन्नपि जने दृक्पथमापन्ने, कण्ठपाठमात्रनिष्णाता अमी रक्तास्यपतत्रिणस्तामविकलां वाचोयुक्तिं यथाधीतमेव शश्वद्व्याजह्रुः ।
अथ कदाचिद्भैक्षचर्यया शरीरयात्रां निर्वर्तयितुं कञ्चन ग्रामं प्रायासीदसौ मुनिः । तस्मिन्नेवान्तरे तेन काननवर्त्मना पर्यटन्विहगवधजीवी कश्चन शाकुनिक उटजोपकण्ठशाखिनः स्कन्धदेशमध्यासीनानेतान्पत्ररथानद्राक्षीत् । “अवश्यमेते मया वागुरापाशबद्धाः कर्तव्याः” इति तीव्रतरा काचित्स्पृहा तस्य चेतस्यजनिष्ट । यावदेवासौ पादपमूलमुपसर्पति स्म, तावदेव सर्वेऽप्यमी वक्रतुण्डा गुरूपदिष्टं पाठं स्मारं स्मारं तारस्वरेण समं समुदीरयितुं प्रचक्रमिरे — “उपसर्पति लुब्धकः, प्रतनोति च वागुराम्, न तु वयं तामुपेयाम” इति । मानुषीमिमां गिरं शुश्रुवानसौ पाशी परं विस्मयमापेदे, न हीदृशान्धीमत्कल्पाञ्छुकान्स पूर्वं कदाचिदप्यालोकयाञ्चकार ।
“नूनं केनचिन्मेधाविना सुशिक्षिता अमी पत्रिणः, तन्नैते सुग्रहाः” इति विमृशन्स लुब्धकस्तस्यैव शाखिनोऽधस्तान्निषसाद । असत्यामप्यल्पीयस्यां सिद्धिप्रत्याशायां सद्यो विफलमनोरथः प्रतिनिवर्तितुमनिच्छन्नसौ तत्रैवानायं प्रसार्य, पक्वदाडिमफलस्य च कतिपयानि शकलानि तदुपरि विन्यस्य — “यद्येकोऽपि बालिशः कीरः फलगृध्नुरस्मिन्पाशजाले निपतेत्, तदपि मे परमं भागधेयम्” इति ध्यायंस्तत्रैव शयानो निद्रावशमगात् ।
अथ मुहूर्तादिवाजागरीदसौ वागुरिकः । प्रबुद्धमात्रस्य च तस्य कर्णशष्कुलीं प्राग्वदेव समं कूजताममीषां कीराणां स एव कलरवोऽवततार — “उपसर्पति लुब्धकः, प्रतनोति च वागुराम्, न तु वयं तामुपेयाम” इति । यावच्च स नयनयुगलमुन्मील्य निभालयामास, तावदेव दाडिमलोभाकृष्टचेतसः सर्वेऽप्येत एकपदेऽन्तर्जालं निपत्य पाशबद्धाः सन्तः सलीलं तदेव गीतं गायन्त एवासत । तेषामर्थबोधविधुरं केवलाक्षरपाठपाण्डित्यं प्रत्यक्षं च मौर्ख्यमवलोक्य सोपहासमुच्चैर्हसन्स शाकुनिकः सवागुरान्सर्वानपि तान्कीरान्संवेष्ट्य स्वधामानैषीत् ।