वृत्तमेव गौरवनिदानम्
पवित्रभागीरथीतीरे निगमागमपारदृश्वा दर्पाध्मातचेताश्च कश्चन विपश्चिदुवास । कदाचित्स्वच्छन्दतरङ्गिण्यां भागीरथ्यामवगाहितुकामोऽसौ विपश्चिन्नदीमुखं प्रतस्थे । पथि व्रजतोऽमुष्य सहसा व्यशीर्यतोपानद्वरत्रा । नातिदूरे पान्थोपानहः सज्जीकुर्वाणः कश्चन चर्मकृदुपाविशत् । अमुमुपेत्य दर्पगम्भीरया गिरा बभाषे स द्विजन्मा रे चर्मकृदचिरेणेमामुपानहं सुसंहितां विधाय मह्यं प्रयच्छेति । ततः स प्रश्रयशीलश्चर्मकृत्सत्वरमेव तामुपानहं संधाय विपश्चिते प्रत्यर्पयामास । तामाददानस्तु स गर्वोत्सिक्तो विपश्चिदवज्ञया पणमेकममुमुद्दिश्य चिक्षेप । पणस्वीकारपराङ्मुखस्तु स साधुश्चर्मकारः कृताञ्जलिस्तं विपश्चित एव करयोः प्रत्यर्प्य सविनयमूचे स्वामिन्नलमेतेन पणदानश्रमेण । यदा भवान्भागीरथीसलिलमवगाहते तदा पूगफलमिदं सुरसरिते समर्पयितुमर्हतीति वाचा प्रार्थ्य क्रमुकफलमेकममुष्य पाणौ न्यधात् ।
ततः स क्रमुकफलमादाय यावदेव पूतसलिलां गङ्गां प्रविश्य जले पादं निदधे तावदेव तरङ्गमालाभ्यः समुत्थाय साक्षात्प्रत्यक्षीबभूव भगवती भागीरथी । करकमलं प्रसार्याथ सा सुरनिम्नगा द्विजोत्तमं प्रत्युवाच रे द्विज ममैकनिष्ठेन भक्तेन प्रहितं पूगफलमाशु प्रयच्छेति । ससम्भ्रममथ विस्मितचेतसा तेन तद्देव्याः पाणौ न्यस्तम् ।
तद्गृहीत्वा तु प्रसन्ना गङ्गादेवी तप्तकाञ्चननिर्मितं कङ्कणमेकममुष्य करे निवेश्य बभाण अनन्यभक्तायामुष्मै चर्मकारायैतत्प्रदीयतामिति ।
तथाविधं काञ्चनवलयमवाप्तवतोऽमुष्य तु विपश्चितो मानसे लोभकलुषितः कुतर्कः प्रादुरासीत् । किं नाम वराकोऽसौ चर्मकृदेतादृशेन महार्हेणाभरणेन विधास्यति । ममैव सहधर्मचारिण्याः करपल्लवे यदीदं विराजेत तर्हि परमा शोभा समृद्ध्येतास्याश्च हृदयं परां तुष्टिमाप्नुयादिति चिन्तयाञ्चकार । एवं विमृश्य स गृहमियाय भार्यायै च तद्वलयं ददौ । सापि हर्षोत्फुल्ललोचना तदादायादर्शमुखमभितः स्थित्वा स्वकीयं प्रकोष्ठं तेनालंकारेण भूषयन्ती नितरां प्रमुमोद । तस्मिन्नेव क्षणेऽस्याश्चित्तवृत्तिरन्यादृशी समजनि । यदा ज्ञातिजना एतत्कदा क्रीतं कियन्मूल्यमिदमित्यादिकमन्यूनातिरिक्तं पृच्छेयुस्तदा खलु महते क्लेशाय भवेदिति विचिन्त्यासौ भर्तारमाजुहाव । आर्यपुत्र कङ्कणमिदमर्थिभ्यो विक्रीय प्रचुरं धनमाहर । तदेव हि भद्रं भवितास्माकमिति तमूचे ।
अथ स द्विजः क्षितिपसद्मनि तत्तत्स्वर्णशिल्पमनुतिष्ठतः कस्यचित्काञ्चनकारस्य करे तद्भूषणं निक्षिप्य तद्विनिमयेन यथेष्टं द्रविणं गृहीत्वा प्रत्यवर्तत । स सुवर्णकारस्तु तादृशमनर्घ्यरचनं कङ्कणं नृपायोपायनीचकार । नितरां तुतोष तद्दृष्ट्वा महिषी युगलीचिकीर्षया च तादृशमेव द्वितीयमाचकाङ्क्ष । ततो नृपतिः पण्डितमाहूय सरोषमादिदेश एतादृशमेव द्वितीयमेकं वलयमानीय समर्पय । अन्यथा तु त्वां कारागारगह्वरे निक्षेप्स्यामीति ।
किंकर्तव्यतामूढस्तु स द्विजन्मा महता मनःशङ्कुना विद्ध इवानन्यशरणः पुनस्तस्यैव चर्मकारस्य सविधं जगाम निजां चासहायदशां तस्मै व्यजिज्ञपत् । तदुपश्रुत्यापि निर्मत्सरचेताः स महाशयश्चर्मकारः पूगफलान्तरममुष्मै प्रयच्छन्बभाषे स्वामिन्निदं सुरनद्यै समर्प्यताम् । सा देवी भूयोऽप्यपरं कङ्कणं दाता । तदादाय राज्ञ्यै प्रदीयतामिति । तथेति तत्फलमादाय तेन विपश्चिता पुनर्मन्दाकिन्यै समर्पितम् । अमोघकरुणा च सा त्रिपथगा द्वितीयमपि शातकुम्भवलयं तस्मै व्यतरत् । तदुपहृत्य च स नृपतये महतो दण्डभयाद्व्यमुच्यत ।
अथ विगलितमदमानो लज्जानतवदनः स विपश्चिच्चर्मकारसविधमुपगम्य बद्धकरपुटोऽमुमपराधक्षान्तिं ययाचे । तदा स प्रशान्तचेताश्चर्मकृत्प्रत्युवाच पण्डितप्रवर सद्वृत्तेन विनयोदारव्यवहारेण चैव लोके जना आदरभाजनत्वमाप्नुवन्ति न तु शुष्कपाण्डित्येनाभिजातकुलजन्ममात्रेण वेति ।