You are here: Home » stories » 59
58 
 60

निर्भीकता

आसीत् फ्रान्स्-राष्ट्रे कश्चन ग्रामको यः सान्द्रारण्येन परिवेष्टितोऽभूत्। तस्य नातिविप्रकर्षे कश्चन तुङ्गो गिरिराजो रराज। तत्रत्यास्तु पौराः प्रत्यहं सायन्तने तं नगाधिपमधिरुह्य नैसर्गिकशोभां सन्दृश्य परं प्रहर्षमुपयन्ति स्म।

अथैकदा तद्ग्रामवासी कश्चिदष्टाब्दवयस्कः शिशुस्तं शैलमभ्यगात्। तत्र च निसर्गश्रियमास्वादयमानोऽसावेकस्यां महाशिलायां न्यषीदत्। विहङ्गमानां कलकूजितमाकर्णयन् स आत्मविस्मृतिं जगाम। यावदेष एवं स्थितस्तावत् तिमिरप्रसर आरभत, समपद्यत च शर्वरी।

गेहे स्थिताऽस्य पितामही चिरं यावत् तस्य नप्तुरागमनं प्रत्यैक्षत। परं तमसि प्रसृतेऽपि यदा स शिशुः स्वसदनं न प्रत्यागमत्, तदास्या हृदयं चिन्ताशङ्काभ्यां युगपदाचक्रन्दे। अत एव सा निजालयान्निःसृत्य सर्वं वृत्तान्तं प्रतिवेशिजनेभ्यो न्यवेदयत्। ते च प्रातिवेशिकाः साहाय्यकं कर्तुमुद्यता बभूवुः। तैः समं सा वृद्धा स्वपौत्रमन्वेष्टुं निरगात्।

सर्वेऽपि तं बालकमन्विष्यन्तस्तस्य गिरेरन्तिकमुपागच्छन्। अद्रौ च सर्वतः पौत्रस्य गवेषणामकुर्वन्। अन्ते च तत्र क्वचन महोपले तूष्णीमासीनं तं शिशुमपश्यन्। बालकस्तु पितामहीं विलोक्य दवीयस्त एव तामाजगाद, नैसर्गिकसौषम्यं वर्णयितुं चोपाक्रमत।

“अयि तात! किमिदम्? किमिहाचरसि? रजनिरुपस्थिता वर्तते। किं ते भयं न जायते?” इति सा जरत्यपृच्छत्।

“'भीतिः'! किन्नामधेयमिदम्?” इति स बालः सकौतुकं पप्रच्छ।

भीतेः स्वरूपमप्यविजानतो निजनप्तुस्तथाविधं धैर्यमवलोक्य विस्मितमानसा सा पितामही तं गाढं परिषस्वजे। स्वकीयेऽष्टमेऽपि हायने भियम् अनभिज्ञः स एव डिम्भः कालान्तरे निजां शक्तिमेवोपकरणं विधाय फ्रान्स्-राष्ट्रस्य सेनाधिपत्यपदवीमलञ्चकार।

58 
 60
Search
stories/59.txt · Last modified: 2026/01/12 14:37