अपूतपाणिः
आनन्दपुरसाहिबनामकस्य पावनतीर्थस्य परिसरः स एषः। कर्पूरधूपपरिमलमिलितसमीरणेन सुवासितं सुरभीकृतं च दिगन्तरालम्। यद्यपि तत्र भक्तानां निबिडसङ्घट्टः समवर्तत तथापि सर्वत्र शान्तिरमणीयम् आध्यात्मिकं वातावरणं व्यराजत। भगवान् श्रीगुरुनानकदेवः धर्मदेशनारूपां पीयूषवर्षिणीं वाचं व्याहरति स्म। सर्वेऽपि भक्ताः समुद्गतसात्त्विकभावाः दत्तावधानाः निमेषरहितैः नयनैः तन्मुखारविन्दं पिबन्त इव तद्वचः शुश्रुवुः। धर्मोपदेशस्य मध्य एव भगवान् नानकः प्रवचनं स्थगितवान्, “पिपासार्दितोऽहम्, स्तोकं पानीयम् आनीयताम्” इति च शिष्यान् आदिक्षत्। तदाकर्ण्य अन्तेवासिनः सत्वरं जहाराः, किन्तु तान् अतिशथ्य अग्रतः उपविष्टः कश्चन वणिग्दारकः जवेन उत्पपात। स वेगेन गत्वा जलापूर्णं चषकं समादाय गुरवे दातुम् उपचक्रमे। जलवितरणवेलायां नानकदेवस्य करकमलेन सह तस्य युवकस्य पाणिः सङ्घृष्टः।
“अयि वत्स ! तव करः नवनीतकोमलः वर्तते। को नु खलु हेतुः अस्य मार्दवस्य ?” इति विस्मितः गुरुः तं पप्रच्छ।
युवा सविनयं जगाद - “भगवन् ! अस्मिन् जन्मनि मया कोऽपि ईदृशः जलवितरणप्रसङ्गो न जातु अनुभूतः, न वा कस्यापि सेवा विहिता, अतः कार्कश्यं न गतः मम हस्तः” इति।
“कथम् ईदृशी दशा ?” - इति पुनरपि गुरुः अन्वयुङ्क्त।
“प्रभो ! अहं खलु कस्यचित् श्रीमतः वणिजः तनयः। मम हर्म्ये परिचारकपरम्परा अहर्निशम् आज्ञां प्रतीक्षते। एवं सति कायक्लेशकरी परिचर्या मया किमर्थं विधेया ?” इति स तरुणः सगर्वं निगदयामास।
“एवं किमु…?” - इति ब्रुवाणः गुरुः सविस्मयं भ्रूभङ्गं चकार। तदनन्तरं स तं चषकम् अनास्वाद्यैव भूमौ न्यक्षिपत्। एतत् दृष्ट्वा खिन्नमानसः स तरुणः सानुनयं प्रार्थयामास - “स्वामिन् ! इदं प्रथमतया एव मया कस्मैचित् पानीयम् आनीतम्। अतः मम सेवां मा निराकार्षीः, कृपया स्वीकुरु वारि” इति।
गुरुनानकदेवः गम्भीरस्वरेण बभाषे - “वत्स ! शृणु, यः जनः जनतारूपिणः जनार्दनस्य परिचर्यां न विधत्ते, यस्य करौ सेवाकिणकर्कशौ न स्तः, तस्य हस्तावपवित्रौ। तादृशस्य अपूतपाणेः सकाशाद् अहम् उदकं न गृह्णामि। त्वया अद्यपर्यन्तं परहितार्थं तृणमपि न चारितम्, अतः तव हस्तौ असंस्कृतौ। तस्मादेव कारणात् मया इदं जलं न स्वीकृतम्” इति। गुरोः तद् वचनं तस्य हृदयम् अस्प्रक्षत्। तत्क्षणमेव तस्य मोहान्धकारः व्यपगतः, प्रज्ञाचक्षुश्च उन्मीलितम्। तदारभ्य स युवा लोकसेवाव्रते बद्धपरिकरः बभूव।