You are here: Home » stories » 69
68 
 70

भ्रातृचित्तपरीक्षा

अथ कदाचन सायन्तने समये दाशरथिः सीतया सौमित्रिणा च समनुगतश्चित्रकूटकान्तारे पर्णशालायां वासं चकार।

तत्रैकस्मिन्दिवसे मध्याह्ने पर्णकुटीरसमीपवर्तिनः कस्यचित्तरोरधस्ताद्वैदेही राघवोत्सङ्गे शिरो निधाय सुखं सुष्वाप। तां निद्रामुपेयुषीं विलोक्य रामश्चेतसीत्थं व्यमृशत् - ‘अहो, अहमिह विजनेऽपि वने कलत्रसहितो निवसन्वनवासमपि सौधवासमिवानुभवामि। न तथा त्वयं मदनुजो लक्ष्मणः। एष तु नवोढां दयितां पत्नीं विहाय केवलं मत्परिचर्यायै वने वसन्, रात्रिष्वपि निद्रामपहाय सततं प्रयतते। तादृशस्यामुष्य क्लेशसहिष्णोर्मनसो वृत्तिः कीदृशी नु स्यादिति परीक्षणीयम्।’

इत्थं विनिश्चित्य स सौमित्रिमाहूयावादीत् - ‘वत्स, कार्यान्तरेण मयेतः क्षणमात्रं गन्तव्यम्। अचिरान्निवर्तिष्ये। इयं तु जानकी ममोत्सङ्गे शिरो निधाय प्रसुप्ता वर्तते। अस्या निद्राभङ्गो यथा न भविष्यति तथा कुरु। अतस्त्वमस्या उत्तमाङ्गं स्वोत्सङ्गे निधाय क्षणमुपाविश।’ इति।

ज्येष्ठाज्ञामानम्य लक्ष्मणस्तथैवाकरोत्। ततो रामः कुटीरान्निर्गत्य क्षणादेव कीररूपमास्थाय समीपवर्तिनः पादपस्य शाखायां न्यषीदत्। अथ सौमित्रिमुद्दिश्य श्लोकेनानेन पर्यपृच्छत् - “पुष्पं दृष्ट्वा फलं दृष्ट्वा दृष्ट्वा स्त्रीमुखपङ्कजम्। त्रीण्येतानि च दृष्ट्वा वै कस्य नोच्चलते मनः॥”

कीरवचः श्रुत्वा लक्ष्मणोऽपि श्लोकेन प्रत्युवाच - “पिता यस्य शुचिर्भूतो माता यस्य पतिव्रता। उभयोर्यः समुद्भूतस्तस्य नोच्चलते मनः॥”

तेनोत्तरेण परितुष्टोऽपि रामस्तं पुनरपि जिज्ञासमानः पप्रच्छ - “दवाग्निसदृशी नारी घृतकुम्भसमः पुमान्। अङ्कस्थिता परस्त्री चेत्कस्य नोच्चलते मनः॥”

तदाकर्ण्य सौमित्रिरेवमुत्तरं जगाद - “मनो धावति सर्वत्र मदोन्मत्तमतङ्गजवत्। ज्ञानाङ्कुशेन विद्धश्चेत्तस्य नोच्चलते मनः॥”

अनुजस्येदमुत्तरमाकर्ण्य रामोऽतीव प्रजहर्ष। ‘अहो, ईदृशं गुणनिधिं भ्रातरं प्राप्य धन्योऽस्म्यहम्’ इति मनसा श्लाघमानः स कीररूपं विहाय निजं मानुषं वपुः प्रतिपद्य लक्ष्मणसकाशमुपागच्छत्। अग्रजमालोक्य लक्ष्मण उत्थातुमैहत। तदा रामो मैथिल्याः शिरः स्वोत्सङ्गे निधायोपविवेश। लक्ष्मणोऽपि यथापूर्वं रक्षणकर्मणि मतिं चकार।

68 
 70
Search
stories/69.txt · Last modified: 2026/01/26 11:26