तापत्रयपरीक्षा
काचिद्युवतिरनारतमापतद्भिर्जीवने व्यसनैरतिशयं परिखिद्यमाना बभूव। सा हि व्यसनपरम्परया भृशं सन्तप्ता कदाचन स्वपितामहीमुपसृत्य जगौ — “आर्ये, नूनममून्यसह्यानि कृच्छ्राणि माम् भृशं बाधन्ते। धिगीदृशं जीवितं यत्र दुःखमेव केवलमनुभूयते। तस्माच्छ्रेयो मन्येऽहं स्वप्राणत्यागमेव।”
पौत्र्यास्तद्वच आकर्ण्य सा प्रज्ञावृद्धा तां महानसमानीनयत्। तत्र तिसृणामुल्मुकानामुपरि त्रीणि समानानि भाजनान्याधाय तेषु जलं निधाय चाधस्ताद्वह्निं प्राज्वालयत्। अथैकस्मिन् भाजन इदं शिखामूलं न्यदधात्, द्वितीयेऽण्डमेकं, तृतीये च कियन्तिचित् काफीबीजानि। मुहूर्तादनन्तरं सोल्मुकेषु ज्वलन्तं विभावसुं निर्वापयामास। अथाब्रवीत् — “वत्से, पश्येदानीं त्रिष्वपि भाजनेषु कानि वस्तूनि कथं परिणतानीति सम्यक् परीक्षस्व।”
सा युवतिर्भाजनस्थानि द्रव्याणि संस्पृश्य तेषां रूपाण्यवलोक्य चोवाच — “आर्ये, नाहमस्य गूढार्थं किमपि विज्ञातुं शक्नोमि।” तदा पितामही व्याजहार — “अत्र खलु विशिष्टमेकं तत्त्वमन्तर्निहितमस्ति। पश्य, त्रिष्वपि पात्रेषु जलमग्निश्च तुल्यमेवासीत्। तापनस्य कालावधिरपि न व्यभिचरति स्म। तथापि प्रत्येकमपि वस्तु भिन्नमेव परिणाममवाप। प्रथमपात्रस्थं शिखामूलं यत् प्राक् कठिनमासीत्, तदुष्णतामासाद्य मार्दवमगात्। द्वितीयभाजनस्थमण्डं यस्य बहिरावरणं प्राक् स्पर्शमात्रेणैव भेद्यमभूत्, तदेव सन्तापात् सुदृढं सञ्जातम्। तृतीयभाण्डे स्थितानि काफीबीजानि तु स्वरूपमेव परिवर्त्य जलमपि स्वात्मरूपतां परिणमयामासुः। इत्थमिमानि त्रिविधानि द्रव्याणि त्रिविधं तत्त्वं स्मारयन्ति।”
एतस्माद् दृष्टान्तात् सा युवतिरिदं तत्त्वमवजगाम — ‘विपत्तौ समुपस्थितायां धैर्यान्न च्यवितव्यम्। प्रत्युत विपत्काले दृढीभूय साहसेन कृच्छ्राणि प्रतिकर्तव्यानि। आपदं सम्यगभिगम्य कालानुरूपमात्मानं परिष्कृत्यान्येष्वपि तादृशं गुणमाधातुं यत्नः स एव खलु परम आचारः।’ इत्थं सामान्येनैव व्यापारेण गहनमपि तत्त्वं बोधितवतीं स्वपितामहीं सा युवतिः सविशेषं कृतज्ञतापूर्वकं ददर्श।