आर्तजनत्राणव्रतम्
कदाचन परमहंसरामकृष्णाख्यो यतिवरस्तीर्थयात्रायां मनश्चक्रे। तमन्वयासीद् दक्षिणेश्वरदेवमन्दिरस्य निर्वाहको मथुराबाबुरपरे चानुयायिनः कतिचन। अथ ते देवघराभिधानं प्रदेशं तीर्थाटनक्रमेण समाजग्मुः।
तदा च तस्मिन् विषये घोरे दुर्भिक्षे प्रसृते, जना अशनविरहाद् दारुणां व्यथामानशिरे। तेष्वपि विशेषतः सन्थालाख्या आटविका भृशं पर्यतप्यन्त। ते खल्वशनवसनाद्यलाभाद् हृतकर्तव्याकर्तव्यबुद्धयः समपद्यन्त। भूयांसश्च तेषां कृतान्तवशमयासिषुः। ये केऽपि तत्राजीवंस्तेऽप्यस्थिचर्मावशिष्टा एव ददृशिरे। तेषामिमां दुर्दशां विलोक्य परमहंसस्य हृदयं कारुण्येन भृशमदूयत। स इत्थं व्यचोदयत् स्वान्तम् - ‘एतेषु जनेष्वित्थं क्लिश्यमानेष्वहं तीर्थाटनं विदधामीति किन्नामौचित्यमावहेत्?’
ततः स मथुराबाबुमाहूयावादीत् - “भद्र, अमीषां विपन्नानामार्तिप्रशमनाय ननु किञ्चिदाचरणीयमस्माभिः?”। स वित्तक्षयभयात् प्रत्यवादीत् - “आर्य, यद्भवताभिधीयते तत् तथ्यमेव। परन्त्विहार्तिमतां संख्या न खलु लघीयसी। एतेषां विपदुद्धरणाय च प्रभूतं वित्तमावश्यकम्। तीर्थयात्राप्यस्माकमद्यापि सुदीर्घा वर्तते, तदनुवृत्तावपि भूयान् व्ययः सम्भाव्यते। तस्मादेतादृशे कार्ये हस्तप्रसारोऽशक्य इति मे प्रतिभाति”।
रामकृष्णः प्रत्युवाच - “न खल्वस्ति किमप्यसाध्यं नाम, यदि मनीषा स्यात् तर्हि सर्वं सेद्धुं पार्यते”। मथुराबाबुरुवाच - “अमितोऽर्थसञ्चयस्त्वपेक्षितोऽत्र कर्मणि…”। तमाक्षिप्य परमहंसो जगाद - “मथुराबाबो! पश्यैतान्। अमी दुर्भिक्षपीडिताः मानवाः किं न जगज्जनन्यपत्यानि? यदि वयं मातृरूपाणां एतेषां सेवां विहाय गच्छेम, तर्हि तीर्थाटनेन किं पुण्यं लभ्येत? अलमनेन वृथा पर्यटनेन। यच्च धनं रक्षितं तदेतेषामर्थे विनियुञ्जीय। धनिनः पुरुषानुपेत्य तेभ्योऽपि द्रव्यं समाहृत्य येन केनाप्युपायेनार्तिरेषामवश्यं प्रशमयितव्या”।
परमहंसस्तु स्वसङ्कल्पात् मेरुवदविचलस्तस्थौ। अतो मथुराबाबुना दुर्भिक्षार्तानामार्तिप्रशमाय प्रयतितव्यमेवापतितम्। तेनापि तेषामाटविकानामर्थेऽशनवसनादिव्यवस्था यथाविधि व्यधायि। इत्थमापन्नानां त्राणे कृते सत्येव परमहंसोऽग्रिमतीर्थयात्राया अनुवृत्तये स्वां सम्मतिं व्याजहार।