सत्पुत्रलक्षणम्
अथैकदा तिस्रोऽङ्गनाः प्रहेरुदकमासिच्य तोयपूर्णान् कलशान् बिभ्राणाः स्वं स्वमोकोऽभि प्रतस्थिरे। अन्तरा तासां तनूजानां वैशिष्ट्यमधिकृत्य कथालापः समजनि। तास्वेकैवं व्यजिज्ञपत् - ‘विद्यते ममात्मजो विपश्चित्तमो यो हि वाग्विवादेषु भागं भजन् धुरन्धरानपि वावदूकान् पराजयते। राजसंसदि चास्य भूयान् समादरः। साम्प्रतं त्वसौ राजधान्यामेवास्ति’ इति।
तच्छ्रुत्वाऽपरा जगौ - ‘मदीयोऽपि सूनुरतिशैशव एव वणिक्पथे पदमधित। अधुना स जनकस्य पण्याजीवं स्वयमुद्वहन् भूयिष्ठं तं प्रपञ्चयामास। मासि मास्यस्य धनागमः समेधते। पुरमध्युवासुषा तेन स्वगृहमाजिगमिषताऽपि न लभ्यतेऽवकाशलेशः’ इति।
अथ तृतीया तु स्वतनूजमुद्दिश्य न किञ्चिदप्यूचे। ततस्तरे तामपृच्छताम् - ‘त्वयात्मजवृतं न किञ्चिदप्याख्यायि खलु’ इति। तदा सा तृतीया प्रत्यवादीत् - ‘ममात्मजस्तु शास्त्रं समध्यगीष्ट। स गृहेष्वेव निवसन् विश्रान्तिकालेषु शास्त्रग्रन्थेष्वभिरतान् अन्यान् बोधयति। जनकेन सार्धं कृषिमाचर्य पाटवं समधिगम्य साम्प्रतं समग्रं क्षेत्रकर्म स्वयमेव निर्वर्तयति। ग्रामे यदि कस्यचिदपि कृच्छ्रमुत्पद्येत, तर्हि तदपाकर्तुं स द्रुतं तत्राभिद्रवति। शास्त्रविवादेषु परान् जयेयम्, प्रचुरं वा वित्तमुपार्जयेयमिति तस्य नास्ति स्पृहा’ इति।
एतावति, राजधानीमभियान् प्रथमायास्तनयः पुरः समाजगाम। स ता नमस्कृत्य पुरस्तात् प्राचलत्। नचिरादेव द्वितीयस्या अपि सूनुः सम्मुखमुपागतः। सोऽपि ताः प्रणिपत्य जवेन ततो निरगात्। तस्मिन्नेव क्षणे तृतीयस्यास्तनयस्तत्रागत्याब्रवीत् - ‘अहो, यूयममुष्मिन् निदाघे किमर्थमेवं कलशोद्वहनक्लेशमनुभवथ? अहमिमान् कलशान् युष्मद्वेश्मानि प्रापयिष्यामि’ इत्यभिधाय तासां कराभ्यामनुनयपुरःसरं कलशान् परिगृह्य पुरस्तात् प्रतस्थे।
तेन पुरतो याते सति, इतरे द्वेऽपि तां तृतीयामूचतुः - ‘तवैवात्मजः श्रेयान्। न केवलमसौ तव, अपित्वावयोरपि भारमुवाह। आवयोस्तनूजौ तु केवलं सभ्याचारमनुपाल्य आवयोः कृच्छ्रमविगणय्य पुरतो निर्गतौ। यस्तु पित्रोरन्येषां च कृच्छ्रापनोदे सर्वदा सावधानो भवेत्, स एव सत्पुत्र इत्यभिधीयते। साधु खलु ते जीवितम्’ इति।