You are here: Home » stories » 77
76 
 78

आत्मत्राणमेव परायणम्

आसीत् किमपि काननं महनीयम्, यस्मिन्नेकः शशो न्यवसत्। 'निखिलमपि सत्त्वजातं मे वयस्यम्, सर्वेऽपि जन्तवो मया सार्धं सादरं संव्यवहरन्ति' इत्येवंविधस्तस्य शशस्य दृढः प्रत्ययो बभूव, यः खलु परप्रत्ययनेयतामेव तस्य द्योतयामास।

कदाचन स शशः क्रीडास्थल्यां चिक्रीड। तस्मिन्नवसरे दूरादापततां सारमेयाणां भषणं शुश्राव। तदाकर्ण्यापि स तस्माद् देशात् नापससर्प। 'किं नु मया पलायितव्यम्? सन्ति हि मम सुहृदो ये मां त्रास्यन्ते। नूनं ते माम् अवश्यमापदः रक्षिष्यन्ति' इति मनसि स चकार।

अथ स वाजिनमुपसृत्य जगाद – “भद्र वाजिन्! इत एवाभिधावन्तः सारमेया भवेयुः। त्वं निजपृष्ठे मामारोप्य तेभ्यः पाहि” इति। तदा स हयः प्रत्युवाच – “सखे, क्षम्यताम्! नाहमिदानीं ते साहाय्यं विधातुमुत्सहे। यतो मे भर्तृकार्यमद्यापि न परिसमाप्तिमगमत्” इति।

तदनु शशो वृषभान्तिकमुपगम्य 'त्रायस्व माम्' इत्यभ्यर्थयामास। स तु बलीवर्दः प्रत्यवदत् – 'सत्वरं करणीयः कश्चन व्यापारो मामत्यापतितः। तेनाहमन्यतो गन्तुमभिलषामि। नो चेत्, तव रक्षणेऽवश्यमेवाहं साहाय्यमकरिष्यम्' इति।

अथ शश उरणस्य सविधं गत्वा साहाय्यं पप्रच्छ। उरणस्तु तमवादीत् – “महाभाग! अधुनाहं सत्वरं सुहृदो निकेतनं प्रति व्रजामि” इति।

ततः परं शशो गोगर्दभशूकरादीनपि साहाय्यार्थमयाचत। किन्तु ते सर्वेऽपि कमप्यपदेशमुद्भाव्य ततः प्रदुद्रुवुः।

इयता कालेन नातिदूरे एव सारमेयाणां भषणरवोऽश्रावि। 'यद्यहमिदानीमपि मित्रेषु विश्वसेयं तर्हि मे मृत्युर्ध्रुवं सम्भवेत्। तेषु विश्वासो निरर्थक एव। अतो मयैव साम्प्रतमात्मविश्वासेन पलायितव्यम्' इत्याकलय्य स शश आत्मत्राणाय तस्मात् स्थानात् प्रदुद्राव।

76 
 78
Search
stories/77.txt · Last modified: 2026/02/07 07:18