गुणहीनता निष्फला
बभूव किल पुरा किमपि प्रथितं विद्यायतनं यत्र ज्योतिष-वैद्यक-शिल्पकला-प्रभृति-जीविकोपायिन्यो विद्याः प्रमुखतया व्यतीर्यन्त । तत्र नानादिगन्त-समागता अध्ययनाभिलाषिणश्छात्राः समायान्ति स्म । द्वारस्था विद्वांसस्तेषां परीक्षामकुर्वत, यस्यामुत्तीर्णा एव लब्धाध्ययनावसरा अभवन् ।
अमुष्य विद्यायतनस्य प्रथा सर्वत्र तथा पप्रथे यथा तद्दिदृक्षयापि भूयांसो जनाः समाययुः । अथ कदाचित्कश्चिन्महाभागस्तद्गुरुकुलं निरीक्षितुमाजगाम । दिनद्वयं तत्रोषित्वा तेन समस्तं व्यवस्थाविधानं निपुणं व्यलोक्यत । यदा च स प्रतस्थे, तदा तमाचार्यः समपृच्छत् - “अस्मद्विद्यायतनेऽस्मिन्नध्यापन-वासादि-व्यवस्थासु युष्माकमभिप्रायः कीदृशः स्यात्?” इति ।
“सर्वथाऽनवद्यं सर्वम्” इति स्मित्वा स महात्मा जगाद ।
“अथापि यदि किञ्चिदपि वैकल्यं भवताऽलक्ष्यत, तर्हि तत्सहसा निवेदयितुमर्हसि” इत्याचार्यो न्यवेदयत् ।
“स्पष्टोक्तौ क्षाम्यमर्हत्ययं जनः । येन खलु विना सर्वमपि कर्म नैष्फल्यमापद्यते, तस्यैवात्र वैकल्यमहं पश्यामि । अत्र येऽधीयते, ये चाध्यापयन्ति, ये चेहाधीत्य वृत्तिमाचरन्ति, तान्सर्वान्सूक्ष्मदृशा पर्यालोच्यैवैतदहं ब्रवीमि…”
“को नु खल्वसावतीव महत्त्वपूर्णोऽंशो योऽस्माभिरिह न दृश्यते?” इत्याचार्यः पुनरपृच्छत् ।
“अनहङ्कृतिरक्रोधः सर्वभूतेष्वादरः परोपकृतिशीलता त्यागो निःस्पृहता धने - इमे केचन गुणा मानवजीवनस्य मूलाधाराः । अत्र वित्तार्जनोपायाः शिक्ष्यन्ते यत्तन्नितरां प्रशंसनीयम् । किन्तु तैः साकमेव गुणवर्धनमार्गोऽप्युपदेष्टव्य आचारेण प्रदर्शनीयश्च । वृत्तिमता व्यवहारेऽमी गुणा यथा प्रकाशेरंस्तथा प्रयतितव्यम् । गुणविकासायैव मुख्यतया प्रयतनीयम् । वृत्तिप्रकल्पनजनिता या कीर्तिर्लब्धा, स इतः प्रस्थितानां सद्वृत्तिलोपान्म्लाना यथा न स्यात्तथा सावधानैर्भवितव्यम् ।…”
तदाचार्य इदं निशम्योवाच - “इतः प्राग्बहवो विश्रुता महानुभावा इदं विद्यायतनं सन्द्रष्टुमागमन् । सर्वेऽपि गुरुकुलस्यास्य भूयसीं प्रशशंसुः । परं भवानेवैको योऽस्य गूढं परिष्कार्यमंशं सम्यगबोधयत् । युष्मत्स्मारणेन वयमत्यर्थमुपकृता भवामः” इति ।