वैराग्यसिद्धेः पन्थाः
कश्चन यतिरासीद्, यस्मै महीपतिः कमपि जातरूपमयं भिक्षाकपालं प्रादात्। तेनैव च कपालहस्तोऽसौ भैक्षचर्याव्रतमन्वतिष्ठत्। तदिदं हैरण्यं भाजनमपहर्तव्यमिति सङ्कल्प्य कश्चित् तस्करस्तं यतिवर्यं विजनमनुससार। तच्चेष्टितमवबुध्यमानो मुनिः स्वपर्णशालाया बहिस्तत्पात्रं विचिक्षेप। तेनाधिगतेन स मोषकस्तुष्टिमगात्।
परं त्वनन्तरमेव तस्य हृदये विचारः समुदपादि - ‘अहो! निःसङ्गतयाऽमुना महात्मना कथमिवेदमनर्घं भाजनं बहिः क्षिप्तम्!’ इति। अथ स पर्यन्ते तं यतिमुपगम्य प्रणम्य स्वकीयां चौरिकामपि निवेद्य पप्रच्छ – “आर्य! निरपेक्षमेतादृशं महार्घं वस्तु कथं त्वया व्यसर्जि?” इति। यतिरवदत् – “मम मतेनेदं केवलं भैक्षभाजनमेव। अनेन तव कश्चिदर्थः सिध्येदिति विचार्य मया बहिर्निक्षिप्तम्।”
मुहुर्तं विमृश्य स तस्करः पुनरपृच्छत् – “महात्मन्! त्वत्साम्यमवाप्तुं कति नु जन्मानीहापेक्षितानि स्युः?” तपस्वी प्रत्युवाच – “अस्मिन्नेव जन्मनि तादृशी पदवी त्वयापि लब्धुं शक्या।” तस्कर आह – “अहं तु कर्मणा चौरः। चौर्यं त्यक्तुं न प्रभवामि। तथा सति त्वयोक्ता सा भूमिः कथं मयाधिगम्येत?”
यतिना निर्दिष्टम् – “प्राणापानयोर्गतिं प्रति सावधानो भव। ततश्चेतसः प्रसादो जायते। चौरिकायामासक्तोऽपि प्राणापानयोश्चारे मनो दध्याः।”
ततः स तस्करो निरगात्। चौर्यकर्मणि प्रवृत्तोऽपि स यदा श्वासगतौ मनस्समाधानमकरोत् तदा तेन स्तेयं कर्तुमपि नाशकि। अचिरादेव तस्य दृष्टौ काञ्चनद्रविणादीनि पाषाणमृत्पिण्डानीव व्यराजन्त। स पुनस्तं मुनिमुपसृत्य स्वानुभवमावेद्यैवमपृच्छत् – “भगवन्, सांप्रतं मया किं नु विधेयम्?” इति। मुनिरुवाच – “यद्यर्थकाञ्चनादिकमेव कामयसे, तर्हि स्ववृत्त्यां स्तेयमेव कुर्याः।”
चोरः प्रत्यवदत् – “न खल्वेवम्। काञ्चनधनादिकमहं तृणाय मन्ये। भवन्तमेवाहं गुरुत्वेन वरीतुम् अभिलषामि। अतो मामनुगृह्णातु भवान्” इत्युक्त्वा स तस्य यतेः पादयोः पपात। तस्मिन्नेव दिवसे स तस्य तपस्विनः शिष्यतामगमत्। कालक्रमेण चात्मप्रसादं लब्ध्वा स परमां गतिमयासीत्।