You are here: Home » stories » 92
91 
 93

नभसः प्रतिष्ठा

अथैकदा कश्चिदर्भको विशालं व्योम विलोकयाञ्चक्रे। सुविस्तीर्णस्य तस्य नभसो न काचिदपि प्रतिष्ठा तेन ददृशे। 'अहो, निरालम्बनमिदमम्बरं यदि निपतेत्, किं नु मे शरणं भवेत्?' इति वितर्कस्तस्य हृदयं विवेश। 'अटवीमाश्रयेयं चेत्तत्रस्था महाद्रुमाः शिरसि मे नभःपतनं निरुन्ध्युः' इति सञ्चिन्त्य सोऽटवीमभिप्रतस्थे।

तत्राटव्यां तेन कश्चिद्यतिर्ददृशे। स बालकस्तं यतिवरं प्रणम्य स्वकीयं मनोविचारं तस्मै शशंस। तस्य सर्वं वचो निशम्य स यतिः स्मित्वा तमर्भकमन्यं ग्राममभि निन्ये। अत्रान्तरे स बालः क्षुधापरिक्षामः समपद्यत। “ग्रामं प्रविश्य भैक्ष्यमटित्वा प्राप्ताशनेन क्षुधं प्रतिजहि” इत्यादिदेश स यतिः।

अथ स बालो भैक्ष्यार्थं जगाम। “भैक्ष्यं चरंस्त्वं किं न ह्रीयसे?” इति केचित् तं पप्रच्छुः। “न किञ्चिदपि दास्यामः, अपसर” इत्यन्ये तं भर्त्सयामासुः। अपरे तु कवाटमेव न समुदघाटयन्। ईदृशैः प्रत्यूहैर्विषण्णचेताः, म्लानवदनारविन्दस्ततो निरगात्।

अथ ग्रामोपान्ते तेन पर्णशाला काचिदालोकिता। तामेत्य स भैक्ष्यमयाचिष्ट। पर्णशालाभ्यन्तरे काचन जननी स्वशिशुं पयः पाययन्ती तस्थौ। “मुहूर्तं प्रतिपालय, पुत्रक! इयमहमायामि” इति सा मृदुगिरा जगाद। क्षणेनैव च बहिरागता सा तस्मै शिशवे सस्नेहमाहारमुपाहरत्। स बालस्तु भुक्त्वा, तस्यै सौहार्देन कृतज्ञतां ज्ञापयित्वा ततो निरक्रामत्।

पुनर्यतिमुपसृत्य स बालः स्वीयमनुभवं तस्मै कथयामास। तदा स यतिरुवाच - “व्योम निरालम्बनमिति त्वया प्रोक्तं खलु? परमार्थतस्तु, अनया मात्रा यत् प्रदर्शितं प्रेम, वात्सल्यं, परोपकृतिः, कृपा, करुणा, सौहार्दञ्च - एतादृशा एव सद्गुणा नभसः प्रतिष्ठा भवन्ति। यावदेते सद्गुणा जगति स्थास्यन्ति, तावन्नभसः पतनं नैव सम्भविष्यति” इति।

यतेस्तद्वचो निशम्य बालस्य चेतो निरुद्विग्नमभूत्। “त्वमपीदृशान् गुणानात्मसात्कुरुष्व” इत्युपदिश्य स यतिस्तं स्वगृहं प्रति प्रेषयामास।

91 
 93
Search
stories/92.txt · Last modified: 2026/02/18 14:49