You are here: Home » stories » 95
94 
 96

अहैतुकी भगवद्भक्तिः

दारिद्र्योपहतायां कामप्यध्ययनशालायां बहवोऽन्तेवासिनोऽध्यासाञ्चक्रिरे। अमुष्य चाश्रमपदमण्डनस्याचार्यस्य योगक्षेमनिर्वहणव्यग्रं चेतो भृशं दुदुवे।

अथ कदाचिदुपससर्पैनं कश्चिद्विनेयः, जगाद च सविनयम्— “गुरो, ननु प्रणतजनवाञ्छितार्थप्रदाने जागर्ति भक्तवत्सलो जगदीश्वरः?”

अमुमाह गुरुः— ओम् । निष्कामतया यः खलु परमपुरुषमाराधयेत्, अमुष्य निश्चितमेव फलेन्मनोरथः ।

“यद्येवं तर्हि कुतो न खल्वत्रभवानाश्रमगतदारिद्र्योपशमनाय याचते तं दयानिधिम्? प्रत्यहं खलु विधीयते भवता तस्योपासना। अमुष्मिन्नेवावसरे यदि स याच्येत, नूनं विलीयेतायमर्थकृच्छ्रः, प्रशाम्येच्च सतीर्थ्यैरनुभूयमानोऽशनाच्छादनादिक्लेशः” इति पप्रच्छ शिष्यः।

ततश्च स्तिमितेन चक्षुषा तन्मुखमवलोकयन्नाचार्योऽन्वयुङ्क्त— “कच्चित्त्वमपीमाभिर्दुर्ललितव्यवस्थाभिः परिखिद्यसे?”

“नेति। कामं विद्येरन्नामास्मिंस्तपोवने कानिचित्कष्टानि, अथापि प्रमुदित एव वर्ते। किन्तु व्यवस्थादोषमिममसहमाना ये नवप्रविष्टाश्छात्राः प्रतिनिवर्तन्ते, इदमवलोक्य भृशं विषीदति मे स्वान्तम्” इत्यवोचच्छिष्यः।

“विद्याधिगमकाले न जातु क्लेशाः खेदावहा भवेयुः। सुखाभिलाषिणस्तु यथेष्टं विहरेयुः, कामं प्रगच्छन्तु ते। साध्वी काचिद्व्यवस्था कल्पनीयेति ममापि विद्यत एवाभिलाषः, अमुष्मै प्रयोजनाय प्रयतते च मे मतिः, अथापि नाद्यापि साफल्यमवापि” इति गुरुर्जगाद।

अमुष्मादेव हेतोर्विज्ञापयामि— यदि स करुणानिधिः स्तूयेत, तर्हि ध्रुवमत्र साफल्यमधिगम्येत इति प्रत्यभाषत विनेयः।

“मैवं वादीः वत्स। फलाभिसन्धिना न जात्वनुष्ठेया भगवदाराधना। आलोकयेमं तावत्प्रपञ्चम्। इदमवलोकनाद्धि कश्चिन्निरवधिरानन्दोऽनुभूयते। अमुष्मै प्रयोजनायैव वयं निसर्गं पश्यामः, न तु कस्यापि प्रत्युपकारस्य लिप्सया। एवमेव निरतिशयानन्दसन्दोहावाप्तय एवोपासितव्यः स परमपुमान्, न तु किमपि फलं मार्गितव्यम्। स्वार्थसाधनाय प्रयुक्ता भक्तिर्वाणिज्यकल्पैवावतिष्ठते। न हि तादृशी सोपधिका वृत्तिः प्रशस्यते सुधीभिः” इत्युपदिदेशाचार्यः।

94 
 96
Search
stories/95.txt · Last modified: 2026/02/23 14:31