श्रमाधीना हि विद्या
अनन्यसाधारणधीसम्पन्नं स्वकीयमौरसं विद्यापारदृश्वानं विधातुकामः कश्चनावनीपालो विशिष्टाध्यापनसौकर्यमन्विष्यन्नानागुरुकुलानां वृत्तान्तं सञ्जग्राह। कुत्रत्यो हि सम्प्रदायः साधीयानिति विमृश्यामुष्मिन्नेवाश्रमपदे कुमारो निक्षेप्तव्य इति निश्चितप्रायोऽभूत्।
पर्यन्ते च कञ्चिदाश्रममधिगम्य तत्रत्यां सकलामपि शिक्षणप्रणालीं साक्षाच्चकार। आमोदयच्च तदीयं मानसमसौ व्यवस्था। तदनु स तत्रत्यं कुलपतिमुपसृत्यावोचत्— “भगवन्, अध्ययनायामुं तवान्तिके निक्षेप्तुमुत्सहे” इति।
“तथास्तु, द्रागेवामुं प्रवेशय” इति जगाद देशिकः।
“आजन्मनः प्रासादतले सुखैधितोऽयं कुमारः। निराबाधमेवास्य जीवनं सम्प्रवर्तेतेत्यस्माकमाकूतम्। अतोऽस्य वासाध्ययनादीनां कृते का नाम विशिष्टा व्यवस्था कल्प्येत त्वया?” इति पप्रच्छ भूपतिः।
“विशिष्टा व्यवस्थेति!” साश्चर्यमुदीर्य क्षणमेकं विरम्य प्राह मुनिः— “नरदेव, राजवंशावतंसानां विहाराय पृथक्पथाः परिकल्प्येरन्। तेषां वासायाहाराय च राजप्रासादेषु विशिष्टा सरणिरपि कल्प्येत। परं ज्ञानतीर्थमवगाहमानानां कृते न कोऽपि विशेषपन्थाः सम्भवति। यथाऽन्यैश्छात्रैः श्रमेणाधीयते, तथैवानेनापि यतितव्यम्। गुरुकुलं खल्विदम्। अत्रान्यैः साकममुष्य सहवासः, तैर्यदश्यते तदेवानेनाप्यशितव्यम्। नात्र कस्यापि कृते पृथग्व्यवस्था सम्पादयितुं पार्यते। यदि तत्त्वज्ञानमधिजिगमिषितं, तर्हि सर्वमिदमनतिक्रमणीयमेव” इति।
किञ्चिदप्यप्रतिब्रुवन् क्षमापतिः श्वोभूते एव सुतमादाय तस्मिन्नाश्रमेऽवीविशत्।