जगाद खल्वेकदा कश्चन नृपतिः स्वमार्गदेशिकं मस्करिणमुपसृत्य— “भगवन्, सुखाय खल्वमीषां पौराणां मयानेके प्रबन्धा विहिताः। अकल्प्यन्त च विविधानि सौकर्याणि। यथा ह्यमी धनपतयो भवेयुस्तथा मया यतितम्। अथापि नास्मिन्मण्डले शर्मशान्त्यादयः पप्रथुः। नाप्यसूयाविद्वेषादयः क्षयमीयुः। किमत्र निदानम्? प्रजानां मुदे किं नु विधेयं मया?” इति।
“बाह्यप्रबन्धमात्रेण वर्धेरन् शर्मशान्त्यादय इति किं तर्कयसि?”
अन्ववादीद्भूमिपः— “बाढम्। समुचितसंविधानकल्पनं खलु राज्ञो भारः। तमहमेवोदवहम्। लभन्ते चामुष्य फलममी प्रकृतयः। एवमास्थिते नूनं प्रवर्धेरन्नेव शर्मशान्त्यादयः?” इति।
“हन्त! भ्रान्तोऽसि। आन्तराः खल्वमी शर्मशान्त्यादयः। ते च भावाः पौरान्तःकरणेषु स्वयमेव विजृम्भेरन्। यथा हि बाह्याभिवृद्धये नृपेण केचन यत्ना आस्थेयाः, तथैवान्तरिकविकासाय प्रबन्धाः केचन विधेया एव” इति व्याजहार यतिः।
“कथंरूपा उपायाः काङ्क्ष्यन्ते?”
“आयोजनीया हि धर्म्योपन्यासाः। प्रस्तौतव्यं च भगवद्गीतादिशास्त्राणां वाचनम्। कल्प्याश्च सत्सङ्गादयः। उपस्थाप्यानि च लोकपुरतो निदर्शनानि। ईदृशप्रयत्नाभिवृद्ध्या जनपदोऽयं सदसद्विवेकमाप्नुयात्। किमुत्कृष्टं किमपकृष्टमित्यादयो विमर्शा अमीषु विजृम्भेरन्। सात्त्विकगुणेषु सर्वतः प्रथितेषु हि जनजीवनोत्कर्षः स्वयमेवैधेत। परोपकृतौ समाजसेवायामपि च दित्सायाममी भूयसा नियोज्याः। येन धर्मप्रवणता पापभीरुतादयश्च वर्धेरन्। इत्थं बाह्यसमृद्ध्या साकमान्तरसम्पदपि यदि पुष्येत्, तर्ह्येवास्मिन्मण्डले सुखादयः स्थैर्यमाप्नुयुः” इति न्यगादीत् स संयमी।
विदितेतिकर्तव्यतोऽसौ क्षमापतिर्गुरुं प्रणम्य ततो निरगात्।