You are here: Home » stories » 102
101 
 103

देशिकदृष्टिर्हि दुर्जेया

व्यनैष्ट किलासौ देशिकप्रकाण्डः प्रपन्नान् परया निपुणतया। अबाधिष्ट चामुं प्रत्येकमपि भक्तं काचिदभिनवा विपत्। “भ्रंशितोऽस्म्यधिकारात्” इत्येको जजाप, “प्रत्याख्यातोऽस्मि सुहृद्भिः” इत्यपरो बभाषे, “निःशेषमपहृता मे श्रीः” इत्यन्यश्चुक्रोश, “परित्यज्य मां गतं कलत्रम्” इतीतरः परिदेवयाञ्चक्रे। प्रजिघाय खल्वमून् स देशिकवरः, श्रावं श्रावमेषामुदन्तं सविस्तरम्, “कृतपुण्योऽसि त्वम्” इत्याश्वास्य, तदुचितं प्रतिकारं चोपदिश्य।

व्याजहार कदाचिदाश्रममभ्येत्य कश्चित् प्रपन्नः “परं निर्वृतोऽस्मि भगवन्, त्वदनुकम्पया” इति। ददावसौ गुरुर्गाढामेकां चपेटां तस्य गण्डदेशे, आकर्ण्येदं वचनम्। प्रवृत्तश्च ततो मिथः कश्चन संलापोऽनयोर्गुरुप्रपन्नयोः।

पप्रच्छ च नवागतः कश्चिद्विनेयः कञ्चित् प्रवरमन्तेवासिनमिदमाश्चर्यमवलोक्य— “नाध्यगाम् खल्वार्य, अस्मद्गुरूणामाकूतमीदृशस्याचरणस्य। क्लिश्यन्तं जनं 'कृतपुण्योऽसि' इति शंसति, प्रहृष्यन्तं च निहन्ति। किमर्थमयं व्यत्यासः?” इति।

जगाद तदा स ज्येष्ठः— “यः खलु शोकाभिभूतो वर्तते, स एव स्वकृतामपराधपरम्परामवबुध्य पारमार्थिकाध्वनि प्रवर्धते। अत एव विपन्नं जनं 'धन्योऽसि' इत्यभिधाय, अमुष्य स्खलिततिमिरपटलमपसार्य, कथमध्यात्मपथे प्रगन्तव्यमिति सन्दिशति भगवान्। प्रमुदितोऽस्मीति योऽगदत्, स तु मोहपथे बभ्राम। न व्यजानादसौ स्वकीयं लोपम्, न वा तमजिज्ञासिष्ट। तत एव कपोले निहत्यामुष्यैवानवबोधं तमबूबुधन्महर्षिः। अनन्तरमस्य दोषानाविष्कृत्य, कथमात्मसंस्कारो विधेय इत्यपि सम्यगन्वशिषत्। अद्राक्षीस्तु त्वं गुरोः प्राथमिकमेव प्रतिस्पन्दम्। नादाश्चावधानमुत्तरोत्तरप्रयासेष्वमीषाम्। विजानाति खलु सुष्ठ्वसौ देशिकेन्द्रः, केनानुष्ठानेन को नाम पारमार्थिकाध्वनि प्रवर्धिषीष्टेति। तदनुगुणमेव च चेष्टते” इति।

101 
 103
Search
stories/102.txt · Last modified: 2026/03/01 10:21