111 
 113

अनासक्तनृपबोधकः

अपराधीति मन्वानाः कञ्चन नरं राजपुरुषा जनकस्य धर्मासनं प्रापिपन्। आकृत्यैव त्वसावनपराध इति नृपतेश्चेतसि प्रादुरभूत्। ततस्तस्य विचारणामारेभे नृपो जनकः। राजपुरुषैस्तदीयागांसि शशंसिरे। तमाह स्म विदेहाधिपः— “ब्रूहि, किमुत्तरं तेऽस्मिन्विषये” इति।

मिथ्यापवाददूयमानमना असौ प्रत्युवाच— “देव, न किञ्चिदपि विवक्षामि। यमेव दण्डं त्वमादिशेस्तमेवाहं सप्रमोदं प्रतीच्छेयम्” इति।

किं वा शक्नुयात्कर्तुं महीपतिः? तदागोऽनुरूपमेवामुं दण्डयामास— “अमुतो मदीयाद्राष्ट्रात्प्रवसेस्त्वम्” इति।

तदाकर्ण्यासावब्रवीत्— “मूर्ध्ना प्रतिगृह्णामि ते शासनम्। परं ते राज्यस्य सीमा यावदस्ति, तां यदि त्वं प्रब्रूयास्तर्हि तामतिक्रम्य जिगमिषामि” इति।

“किं न वेत्सि त्वमस्मन्महाराजस्य राष्ट्रसीमानम्” इति कश्चिदमात्यः सरोषं पर्यपृच्छत्।

“अविदितत्त्वादेव खल्वहमनुयुञ्जे। मिथिलायास्तु सीमानमवगच्छामि, परं न वेद्मि महाराजस्य राष्ट्रस्य” इति जगाद स पुमान्।

तदुपश्रुत्य राजा हृदि विमृशं विमृशं निश्चिकाय— ‘सत्यमेवाभिदधात्ययम्। पूर्वजेभ्य इमां मेदिनीमधिजग्मे। मद्वंशजा अपीमां स्वीयामेव मंस्यन्ते। एवं सति कथमियं मे संपद्येत? अहमप्यस्या निर्वाहकेष्वन्यतम एव। नास्त्यस्यां ममापि स्वामित्वम्’ इति।

‘महात्मैवायम्। न नूनमसाविदं पातकमकार्षीद्यद्राजपुरुषा अध्यारोपयामासुः। मृषैवासावभिशापः’ इति मनसावधार्य स नृपो मिथ्यापवादस्य मूलं मृगयाञ्चक्रे। ततश्चावजज्ञे यदमुनानागसा न किमपि दुष्कृतमकारि, परं द्वेषमत्सरादिना कैश्चिदन्यैरमुष्मिन्दूषणं न्यधायीति।

अथ प्रकृतदोषिभ्यो दण्डं प्रणीय तं महात्मानं क्षमामयाचत— 'स्वात्मयाथार्थ्यं मां प्रबोधयते तुभ्यं भृशं कृतज्ञोऽस्मि' इति। ततश्च विविधोपायनप्रदानैस्तं सभाज्य ससम्मानं प्रजिघाय।

111 
 113