You are here: Home » stories » 111
110 
 112

वैविध्यं खलु श्रियै

ररक्ष महीम् कश्चन भूपतिः, यस्य सम्यक्परिपालिते राष्ट्रे निरातङ्का मुमुदिरे प्रकृतयः। अतुदत्तु कोऽपि विषादोऽस्य चेतः, यतः स्वविषये नानाव्रतधराणां नैव सामरस्यं व्यलोकयत सः। “विनिन्दन्ति ह्येकममरमुपासीना अन्यान्, परस्परमवक्षिप्य च देवताराधकैर्नीयन्ते वासराः” इति चिन्तया परितताप सः।

सङ्गमयामास स भूपतिर्नानादर्शनधुरन्धरान्, बभाषे च— “कामो मे यदमुष्मिन् राष्ट्रे सर्वैरेकैवोपासनापद्धतिराद्रियेत। या हि रीतिः श्रेयसी तामेव सर्वे पौरा अनुवर्तेरन्। तदिदं विमृश्य यूयं वरीष्ठं व्रतमेकं चिनुत। यदि वा विद्यमानेषु सम्प्रदायेषु न कोऽपि निरवद्यः, तर्हि सर्वतः कल्याणगुणानुपादाय कस्याश्चिन्नवीनाया एव रीतेः स्वरूपं निर्धारयत” इति।

मिथः सङ्घर्षमाणा अपि श्रेष्ठतयां कामपि पद्धतिं निर्णिनीषवो न शेकुस्ते विपश्चितः। नापि च सर्वसम्मतामभिनवां काञ्चित् सरणिं सिसृक्षवोऽपि प्रबभूवुः।

आजगाम चाथ कदाचित् कोऽपि परिव्राजकोऽमुं देशम्। राज्ञो मनोगतमाकलय्य स भूपालं समेत्य तेनैव सार्धं तदीयं कोष्ठागारं विवेश। तत्र च सञ्चितानि नानाविधानि धान्यानि विलोक्य पप्रच्छ सः— “किमर्थमत्र बहुप्रकाराणि सस्यानि सङ्गृह्णासि त्वम्?” इति।

“उत्पाद्यन्ते हि प्रकृतिभिरनेकप्रकाराणि धान्यानि, तत एव खल्विमे नानाविधा राशयः कोष्ठागारे सञ्चीयन्ते मया” इति प्रत्युवाच पार्थिवः।

पप्रच्छ च यतिः— “किमर्थं पुनस्ताभिरनेकविधानि सस्यानि प्ररोह्यन्ते? कुतो नैकविधमेव धान्यं वर्ध्यते ताभिः?” इति।

“देशभेदाद्भिन्नरुचयो हि मानवाः। जलवायुवैषम्याच्चापेक्षाणामपि वैविध्यं जायते। किञ्च, कायपोषणाय नानाविधानामन्नजातानामस्ति खलु प्रयोजनम्। अत एव कृषीवला बहुविधानि धान्यानि वपन्ति। सर्वत्राप्येकस्यैव सस्यस्य प्ररोहणं न केवलमयुक्तम्, अपि तु प्रकृतयस्तन्न सहेरन्। स्वास्थ्यदृष्ट्यापि न तत् साधीयः” इत्यवददवनिपालः।

निशम्यैतदन्वशाद्यतिः— “यथा सस्येषु वैचित्र्यमपेक्ष्यते, तथैवोपासनादिष्वपि वैविध्यमवश्यं मृग्यते। कृत्स्नेऽपि राष्ट्रे नैकैवाचारपद्धतिः प्रभवितुमर्हति। नृणां खलु रुचयो वासनाः प्रवृत्तयश्चातीव भिद्यन्ते। तदनुरूपमेव ते स्वमुपासनाक्रमं वृणते। तस्मादुपासनासु वैविध्यं श्रेयस एव कल्पते, न दोषाय” इति।

110 
 112
Search
stories/111.txt · Last modified: 2026/03/12 14:16