प्रजावत्सलो न्यायप्रियश्च बभूव पुरा कश्चनावनीपालः। अपवर्गसुखमेवानिशं चकमे सङ्गीततूर्यादिभोगेष्वनादृतमनाः सः। “कथमवाप्येतापवर्गः, केन वा पथाधिगम्येत निजं तत्त्वम्” इति मुहुर्मुहुर्दध्यौ सः। “कथं नु सिद्ध्येन्मुक्तिः, कीदृशो वा तदवाप्तिमार्गः” इति पप्रच्छ स यतीन् धर्मदेशिकांश्च। प्रत्यूचुः सर्वेऽपि ते यतयो धर्मभाणकाश्च निजमत्यनुसारेण। न तुतोष तु तेषां वचोभिरमुष्य चेतः।
बुबुधे कश्चित् परिव्राजक इमं व्यतिकरम्। “प्रबोधनीय एष सम्यक्” इति विनिश्चित्य तस्यामेव शर्वर्यामर्धरात्रे राजप्रासादमासाद्य हर्म्यतलमधिरुरोह स मस्करी। निशीथेऽप्यलब्धनिद्रश्चिन्ताकुलः शयनीये शिश्ये स नृपतिः। सहसा हर्म्यतले कस्यचित् पदशब्दमुपश्रुत्य “क एष निशि समागतः? नूनं स्तेनेनानेन भाव्यम्” इति विमृश्य सत्वरमुत्थाय तत्राजगाम सः। पप्रच्छ च तारस्वरेण - “अरे, कोऽसि त्वम्? किमर्थमत्रागमः?” इति।
व्याजहार स मस्करी - “राजन्! कुत्रचिन्मे क्रमेलकोऽद्य ननाश। तमन्वेष्टुमिहागमम्” इति। जहासोच्चैः स भूपतिरुवाच च - “का ते इयं जाड्यम्? अपि नाम हर्म्यतले क्रमेलकः केनापि जातु लभ्येत?”
सस्मितं प्रत्युवाच यतिः - “अरे! प्रासादे सुखमासीनेन केनचिद्यद्यपवर्गोऽधिगम्येत, तर्हि कथं न हर्म्यतले क्रमेलको लभ्येत? यद्यहं जाड्यभृदस्मि, तर्हि त्वमपि मूर्खशिरोमणिरसि नूनम्!”
एतदाकर्ण्य तद्वचोगूढार्थं बुबुधे स पार्थिवः। प्रातरेव प्रासादं विसृज्य पारिव्राज्यमाततान सः।