You are here: Home » stories » 117

समदर्शनसज्जनचरितम्

आबाल्यमेवामुष्य रामरमणस्यापरसाधारणः कोऽपि परोपकारव्यसनातिरेको विजजृम्भे। अस्य च जनित्री कनकसुन्दरीति प्रथिता श्रीजगन्नाथपादाब्जभृङ्गी बभूव। 'आर्तजनानुकम्पयैवाशु प्रसीदति जगन्निवासः' इत्यमुं तनयं सा मुहुर्मुहुरन्वशात्। दरिद्रनारायणेभ्योऽन्नमप्रदाय न सा जातु स्वयमाहारं जग्राह।

प्रत्यावर्तमानः कदाचिन्नीलाद्रिनाथमन्दिरादसौ पथि गाढमूर्च्छाक्रान्तं कमपि जीर्णपुरुषं ददर्श। तमालोक्य विषण्णमनाः सोऽमुमुपसृत्य स्वोत्तरीयेण पर्यवीजयत्। लब्धसंज्ञं चोन्मीलितलोचनममुं पिपासुं स सलिलमपाययत्।तदीयमुपकरणभारञ्च निजोत्तमाङ्गे निधाय तेनैव साकं सम्प्रतस्थे।

ततो विस्मितोऽसौ वृद्धो जगाद - “अहो आर्य! किमिदमनुष्ठीयते भवता? अहं नीचजन्मा भवांश्चाभिजात्यगर्वितो द्विजोत्तमः। नार्हति भवान् मदीयमुपकरणमुद्वोढुम्। न ह्येतत् कुलानुरूपं सर्वथा” इति। तच्छ्रुत्वा प्रतिजगाद रामरमणः - “परमेश्वरदृष्टौ हि सर्वे प्राणिनः समाना एव। तत्र कोऽयमुच्चावचभावः? जरया जीर्णोऽसि त्वम्। ततस्तवासेवनं ममावश्यकर्तव्यम्। अत्र जातिकुलविचारस्य नावकाशः कश्चन” इति।

एतस्मिन्नेवान्तरे तत्रैव सम्प्राप्ता कनकसुन्दरी निजतनयस्यैतादृशीं भूतदयामवलोक्य नितरां ननन्द। आशिषं प्रयुञ्जाना सा जगाद - “वत्स! स्थविरेषु या त्वया प्रदर्शितैषा शुश्रूषासक्तिः सैषा सर्वदा त्वयि स्थिरीभवतात्। अनया खलु नूनं भगवतः परमेश्वरस्य परिपूर्णकृपापात्रतामधिगमिष्यसि” इति। जननीं प्रत्युवाच सः - “अम्ब! त्वदाशंसैव ममापरिलङ्घ्यं शासनम्। ततो न जातु परोपकारव्रतात् प्रभ्रश्येयमहम्” इति। कालान्तरेणासावेव निखिलोत्कलजनपदे रामरमणदासनाम्ना प्रथितयशा बभूव।

Search
stories/117.txt · Last modified: 2026/03/15 14:48