166 
 168

सूनृतवाग्विभवः

पप्रच्छ किल कदाचिदाचार्यो निजानन्तेवासिनः - “युष्मासु कति सम्भाषणकौशलं विदन्ति ?” इति। “विद्म एव वयं संलपनरहस्यम्” इति प्रहृष्य जगदुश्छात्राः।

“अवेम्येवाहं मूकेतरमानवानामखिलानां वाग्व्यापारक्षमताम्” इति जगाद गुरुः। “किन्तु यया वाचा न कस्यापि चेतो दूयेत, यया च शृण्वतां मनांसि विकचाम्भोजायेरन्, या च सौहार्दादिसद्भावं समेधयेत्, यामाकर्ण्य वक्तुः सुजनत्वमुन्मीलेत्, सैव सत्या वाक्। यस्य खलु वदनादनवरतमेतादृशी वाग्गङ्गा स्रवेत्, स एव सूनृतवाग्विलासी। तादृक्क्षमतासम्पन्नो युष्मासु कोऽस्ति ?” इति।

निश्चक्राम न कस्यापि वदनात् कापि वाक्। तत आचार्य एव पुनरभ्यधात् - “मरुतो हि नानाविधानि रूपाणि। अतिरयाय, चण्डाय, पूतिगन्धये वा समीरणाय न केनापि स्पृह्यते। शिशिरः सुरभिर्मातरिश्वा तु सर्वजनमनांसि रञ्जयति। एवमेव प्रत्यूषस्य बालातपो निशामुखस्य च मन्दातपो नित्यं रोचते, न तु चण्डभानोस्तीव्रातपः कस्यापि मुदे सम्पद्यते।

अक्षुब्धं स्रवन् विमलो निर्झरोऽखिलैरेवाभिलष्यते। रयवान्, कलुषः, ग्राहसङ्कुलो वा स्रोतस्विनीप्रवाहो न कस्यापि प्रीतिं प्रसूते। तस्मादस्माकं भारती मन्दमारुत इव, बालातप इव, अच्छस्रवन्तीप्रवाह इव, मृदुमधुरनिनाद इव च हितावहा भवेत्।”

बद्धावधानाश्छात्रास्तदीयं वचनं शुश्रुवुः।

अनुततान च निजप्रवचनमाचार्यः - “कल्याण्यः, सस्नेहाः, प्रभावोत्पादिकाः, अकृत्रिमा एव गिरः सर्वैरुरीक्रियन्ते। अस्मद्गिरं निशम्यैवामी लोका अस्मासु प्रणयमुदासीनतां वा भावयन्ति। यस्य खलु भारती माधुर्यस्यन्दिनी, तस्यैव वशंवदो भवत्ययं लोकः” इति।

166 
 168