वैराग्यनिकषोपलः
“अन्तेवासितां ते प्रपत्तुमीहे। तपोवनमेतदधिवस्य श्रुतीरधिजिगांसुः पश्चात्पारिव्राज्यं ग्रहीष्यामि।” इति देशिकप्रवरमुपससाद बभाषे च कश्चिद्वैराग्यभाक्तरुणः।
बहुशोऽमीमांसिष्ट प्रवेशार्थिनां सत्त्वशुद्धिं स तापसः। आबालगोपालविदितश्चायमर्थः। तमेनमर्थमवगच्छन्नेवाशेषतः सन्नह्याश्रमं विवेशायं वटुः। ततश्च देशिकप्रयुक्ताः समस्ता अपि परीक्षा अनायासेनोत्ततार।
“सप्ताहात्यये पुनरायाहि। तदैव बोधयिष्यामि त्वां ममाभिप्रायम्।” इति तमन्वशाद्गुरुः। तदाकर्ण्य प्रत्यजगामासौ।
“उच्चाधिकारे नियुङ्क्ष्वेमम्, प्रचुरां च भृतिं प्रदेहि।” इति परेद्युरेव कञ्चिदाश्रमभक्तं धनपतिमाकार्य तस्मै वटोर्वृत्तान्तमाख्याय समादिक्षत्स गुरुः।
कर्मणि न्यवीविशत् तं युवानमाकार्य व्याजेन परीक्ष्यैव स वणिक्, गुरोरादेशमनुतिष्ठन्। अचिन्तितोपस्थितमिममवसरमासाद्य प्रहृष्यन्नसौ वटुः परेद्युरेव कार्याधिकरणाभिमुखं प्रतस्थे।
“समस्ता अपि परीक्षा अत्यगास्त्वम्। अतस्तेऽन्तेवासितामुररीकरोमि। श्व एवाश्रममुपेहि।” इति सप्ताहात्यये तं युवानमानाय्य बभाषे देशिकः।
“अन्तेवासितां लिप्सुरहमाश्रममागममिति सत्यमेव। किन्त्वन्तरा महतीं काञ्चिद्वृत्तिमलप्सि, यस्यां भूरि भरणं लभ्यते। कथं तामुत्सृजेयम्?” इति व्रीडानम्रकन्धरः स युवा प्रत्युवाच।
“का श्लाघान्यत्रावसरमविन्दत इहागमने? लब्धमप्यवसरं तृणवदवधूय य एति, स एवाधिकरोत्यन्तेवासिताम्। एतदेव पारिव्राज्याधिकारस्य प्रथमं निदर्शनम्।” इति व्याजहार गुरुः।
वृत्तिं विगतस्पृहस्तत्याजावगतान्तस्तत्त्वोऽसौ वटुः, परेद्युरेवाश्रममाजगाम च।