169 
 171

काकिणीरक्षणं कोटिविसर्जनञ्च

सार्वभौमविद्यापीठं तिष्ठापयिषुर्वित्तसञ्जिघृक्षया मदनमोहनो वसुन्धरामटाट्यत। अथ कलिकाताभिधाने पुरे कस्यापि नैगमस्य निवेशनमुपजगाम। तदीयाजिरे हुतभुक्शलाकया विहरंस्तदीयडिम्भस्तामेकामजिज्वलत्। सहसाविर्भूतः स सार्थवाहः सुतकपोले चपेटिकामर्पयंश्चुक्रोश — “कस्मान्मुधा क्षिणोषि दहनशलाकाम्” इति।

अथादो निरीक्ष्यमाणो वितर्कयामास मदनमोहनः — “अस्थाने खलूपागाम्। कदर्याग्रेसरोऽयमाभाति। शलाकाकृते निजसुतं निघ्नतोऽमुष्माद्वित्तावाप्त्याशा गगनकुसुमायते” इति। ततः प्रतिनिववृते च।

अत्रान्तरेऽमुमालोकत स वणिक्। पप्रच्छ च — “आर्य! अजिरमुपागाः, किमर्थं प्रतिनिवर्तसे? किमुद्दिश्य समुपाजग्मिथ?” इति।

सदनमाविवेश, आचचक्षे च विश्वविद्यायतनसिस्थापयिषां मदनमोहनः। विलज्जमानो जगाद च — “तदर्थमेव द्रविणमर्जयितुं समुपागाम्” इति।

“अहो महीयसी खल्वियमनुष्ठितिः! गृहाणेदम्मदीयं क्षोदीयः प्रदानम्” इत्यभिदधानः स इभ्यस्तत्पाणितलयोः पञ्चायुतमुद्रा निदधौ।

अमीमांस्यैवावाङ्मनसगोचरं द्रव्यं वितरतोऽस्य वदान्यतां पश्यन्विस्मयमापेदे मदनमोहनः। स्वमनोगतं निगूहितुमपारयञ्जगाद — “शलाकापव्ययात्सुतं निघ्नंस्त्वमेतावद्विपुलं द्रविणं दद्या इति नातर्कयिषम्” इति।

तदाचचक्षे सार्थवाहः — “सत्पात्रे निपातयेदेव भूरिद्रव्यम्। तदेवं व्यधाम्। अपात्रे तु काकिणीमपि न क्षिपेत्। अत एव सूनुमबभर्त्सम्” इति।

169 
 171