आचार्यमुपसृत्य पप्रच्छ कश्चिद्विनेयः— “भगवन्, निजाकृत्या तुल्यरूपा एवावभासन्तेऽस्मिन् लोके मानवाः। तथाप्यमीषां केचन परमोत्कर्षमश्नुवते, अपरे त्वधः पतन्ति। किन्निबन्धनोऽयमपकर्षोत्कर्षरूपो भेदः?” इति।
इदमाकर्ण्य जगाद गुरुः— “श्वः स्रवन्तीतीरमुपेयाः” इति। अमुष्य शासनानुसारी परेद्युस्तत्रैवागादसौ छात्रः। तावतैकं सच्छिद्रमन्यच्चाच्छिद्रमिति करकयुगलं पाणिभ्यां दधानस्तत्रैव तस्थौ देशिकः।
यदा तत्रोपजगाम विनेयः, तदादः करकयुगलं स्रोतसि चिक्षेप मुनिः। आप्लवेताञ्चामू उभावपि तोये। अचिरादेव सच्छिद्रः करको निममज्ज वारिणि। इतरस्त्वविकृतः प्लवमान एवावातिष्ठत।
तदवस्थावमू दर्शयन्नाह गुरुः— “किन्निमित्तमियं वैषम्यस्थितिः समजायतानयोः?” इति।
ततो बभाषे शिष्यः— “अयमेको रन्ध्रवत्त्वादन्तःप्रविशता पयसा निममज्ज। इतरस्त्वरन्ध्रत्वान्न तादृग्दशामन्वभूत्” इति।
इदमाकर्ण्योवाच देशिकः— “वत्स, मनुजानामप्येष एव न्यायः। येषामन्तराशये दोषमयानि रन्ध्राणि सन्ति, तन्मुखेन दुष्प्रवृत्तयोऽन्तःप्रविश्य तानधः पातयन्ति। ये पुनर्निर्दोषप्रकृतयः, येषु च दुर्व्यसनावताराय नावकाशः, अमी किमप्यपायमनासाद्य प्रशस्तं जीवनं नयन्ति। बाह्यदर्शनेन समाना अपि मानवा आन्तरस्वभावेन भिद्यन्ते। अत एवामीषां जीवनगतीनामपि वैलक्षण्यमुपपद्यते। ततश्च निजस्वभावानुरूपमेवोन्नतिमधोगतिं वाश्नुवते प्राणिनः” इति।