प्रतिकर्मविपाकः
चम्पानगर्यां खलु पुरा चकासाञ्चकार कश्चन जगत्प्रथितो विष्ण्वालयः। दिदृक्षुरमुं देवं वङ्गदेशादाजगाम कालिचरणो नाम कश्चन नैष्ठिकः। तस्मिन्नन्तरे प्रावर्षत् पयोदः। प्रशान्ते च वर्षणे कञ्चन कुण्डल्यापणं ददर्श सः। निर्मूल्यमेव वणिगमुष्मै काश्चन कुण्डलीः प्रादात्। परमप्रहृष्टमनास्ता बुभुजेऽसौ।
भुक्त्वा च मन्दिरमभिप्रतस्थे सः। अतिवृष्ट्या जलपङ्कसङ्कुलोऽभूत् पन्थाः। भक्तिपरवशोऽसौ पङ्किलमार्गेऽपि ननर्त। स्खलित्वा पपातान्यतमस्याः प्रमदायाश्चेलान्ते तदीयपदविक्षेपोत्क्षिप्तः पङ्कलवः। तदवलोक्य भृशं चुकोप तस्याः कान्तः। रोषताम्राक्षः स कटूक्तिभिर्निर्भर्त्सयन्नमुं जघान। वाक्पारुष्यप्रहारयोर्निदानं परिज्ञाय दूयमानमना अवाङ्मुखः स धर्मशालां जगाम।
अयाचितक्षमेऽपगच्छत्यमुष्मिन् सा योषिदपि तं निनिन्द। अत्रान्तरे विषमे धरातले स्खलितपदो भूमौ पपात तस्याः पतिः। पतनप्रहाराद्विसंज्ञोऽभूत् सः। ततो भृशं रुरोद सा पत्नी। तदीयमाक्रन्दितमुपश्रुत्य बहवो जनास्तत्र समाजग्मुः। तस्या मुखादमुमेव कालिचरणमनर्थमूलं जज्ञुस्ते। क्रुधान्धास्तमभिभवितुं प्रचक्रमिरे। तेषां रोषनिदानमवगम्य प्रशान्तचित्तः स वृत्तं सर्वमाचचक्षे। परं न कोऽपि तद्वचोऽशुश्रूषत। तावत् कश्चन वयोवृद्धः सान्त्ववचोभिस्तेषां रोषमशीशमत्।
तदा जगाद कालिचरणः - “नैसर्गिको हि कलत्रेषु पुंसामनुरागातिशयः। न कोऽपि कान्तो निजकान्ताविषये कृतमपचारं मर्षयति। यद्ययं पतिः स्वप्रियां प्रत्यसावधानेन मया विहितमागो न चक्षमे, तर्हि मामुद्दिश्य सञ्चिन्त्यैव तेन कृतं प्रहाररूपमपराधं मदिष्टदेवो हरिः कथं क्षमेत?” इति।
तदीयवदनादिदं निशम्य तत्र समवेता जना अमुं भगवन्महाभक्तं मत्वा क्षमां सम्प्रार्थ्य ततो जग्मुः। तावपि दम्पती तं क्षमां ययाचाते। कालिचरणोऽपि तावाशिषा संयोज्य तयोरायुरारोग्यं भगवन्तं सम्प्रार्थ्य धर्मशालां प्रतिजगाम।