संविभज्य भोक्तव्यम्
अध्यगीष्ट सप्तमीकक्षायां कोऽपि माणवकः । अमुष्य वासगृहपुरोभागे रुरोहाभ्रंलिहः कश्चित् पनसद्रुमः ।
कदाचित् तस्य फले पाकफुल्ले सति, तच्छित्त्वा पेशीः पृथक्कृत्य माता सुतेन पञ्च पर्णपुटान् आनाययाञ्चकार । अमीषु च तास्ताः पेशीर्न्यधात् । विततर्क चासौ बालो ध्रुवमद्यैकम्पुटकं मह्यं दास्यति जननीति । परन्त्वेकम्पुटकममुष्य पाणौ निधाय जगाद माता - 'निवेद्येदमीश्वरचरणयोः प्रतिनिवर्तस्व' इति । मातुर्वचनमलङ्घयंस्तथैवान्वस्थात् सूनुः ।
ततः पुटकद्वयमस्य पाणौ निधाय सा जगाद - 'ज्यायस्यै कनीयस्यै च पितृव्यपत्न्यै पृथगेकैकं पुटकं विश्राण्येहि' इति । विषण्णचेताः सविषादं तयोर्निवेशनमित्वा ताभ्यां वितीर्य प्रतिनिववृते ।
भूयोऽपि पुटकमेकममुष्य हस्ते समर्प्य माता - 'प्रतिवेशिन्यै स्थविरायै चेदं विश्राण्येहि' इत्यादिदेश । मातृशासनमलघयंस्तथैवान्वष्ठात्, परन्तु जरन्तीनिवासात् प्रतिनिवर्तमानस्यामुष्य मुखमायासेन म्लानिमगमत् ।
तदनु चरमद्रोणात् फलशकलमेकमुद्धृत्यास्मै प्रादादाह च 'भुङ्क्ष्वेदं वत्स' इति । तदा पप्रच्छ दारकः - 'अम्ब, अस्य भूयांसं भागमितरेभ्यो व्यतारीः । मह्यं तु स्तोकिष्ठमेवादाः । किमिदं वैषम्यं रचयसि?' इति ।
ततो जगाद माता - 'वत्स, भगवतः कारुण्यादेव रुरोह द्रुमोऽयं, तदनुग्रहादेवासादितं चेदं फलम् । अतस्तदीयांश एव प्रथमं तस्मै न्यवेदि । अस्माकं व्यसनेषूत्सवेषु च समभागिनः केवलं ज्ञातय एव । तेन तेभ्योऽपि कियदंशो व्यतारि । अनाथा खल्वसौ स्थविरा, अस्माभिर्मातृवत् पूज्या चेति तस्या अपि स्वांशो न्यधायि । सर्वेभ्यो विभज्य यदवशिष्येत, तदेवास्माभिरुपभोक्तव्यम् । येभ्यो विश्राण्यते तेषामाशिष एवास्मान् पान्त्याकल्पम् । संविभज्य भोक्तव्यमिति तत्त्वमेव नो जीवनसूत्रं स्यात्' इति ।
एतदाकर्ण्य नवा कापि जीवनदृष्टिरमुना माणवकेनालम्भि । अहङ्कारममकारग्रस्तां स्वार्थचिन्तामसौ व्यपजहौ । असावेव माणवको भविष्यति 'आचार्यविनोबाभावे' इति प्रपञ्चे विश्रुतिं जगाम ।