180 
 182

पितृभक्तिविशेषाद्वाणिज्यजयः

अभूत्पुरा कस्मिंश्चिन्महानगरे मणिमुक्तादिविक्रयोपजीवी कश्चिदापणिकः। आजगाम कदाचिदमुष्यापणं प्रभूतवसुसम्पन्नो धनपतिः कश्चन। “हाररचनायै प्रदर्श्यन्तां कानिचिन्महार्हाणि रत्नानि” इत्युदीरयामास स धनी। प्रदर्शयाञ्चकार तस्मा आपणिकोऽपि कानिचिन्मणिरत्नानि। तानि च सकृद्दर्शमवलोक्य प्रोवाच स क्रेता - “कच्चिन्न विद्यन्ते ते सविधेऽमीभ्योऽपि महार्घतराणि रत्नानि? मा कृथास्तन्मूल्यगौरवचिन्ताम्। तान्येवाहं क्रीणीयाम्। ततश्च दर्शय प्रकृष्टतमानि रत्नानि” इति। प्रत्युवाच स वणिक् - “विद्यन्त एवानर्घ्याणि रत्नानि, परन्त्वमूनि वर्तन्ते कक्ष्यान्तरे। ततस्तूर्णमेव तान्याहरामि” इति।

जगाम च सोऽन्यं प्रकोष्ठं यत्र खल्वस्य जनको निद्रामुद्रितनयनोऽशेत। प्रावर्तत च स शनकैः कपाटमपावरितुम्। किन्तु तदीयद्वारसन्धयस्तीव्रं स्तब्धीबभूवुः। ततोऽसावन्वमंस्त - 'यद्यहं बलादपावृणुयां कपाटं तर्हि सञ्जायेतात्र महान्नादः। तेन च तातस्य निद्राभङ्गो भवेत्, यच्च न साम्प्रतम्' इति। ततश्च शून्यहस्त एवासावुपावर्तत।

पप्रच्छैनं स धनिकः - “किमिति नाहृतानि रत्नानि?” इति। “शयितो मे तातो यावन्न प्रबुध्येत तावन्न शक्यमपावरितुं द्वारम्” इति प्रत्यवादीद्वणिक्। “परन्त्वनेन मे महान्कालक्षेपः सञ्जायेत” इत्यभिहिते धनिकेन स वणिग्जगाद - “किं वा करवाण्यहम्? तातस्य सुखमेव मे गरीयो न पुनर्व्यवहारः। तस्मान्न खलु धनलोभाय जनकमहाशयस्य निद्रां विहन्तुमुत्सहे” इति।

पितरि वणिजो गरीयसीं भक्तिमाकलय्य नितरां परितुष्टः स धनपतिः कञ्चित्कालमत्रैव प्रतिपाल्य रत्नान्युपक्रीयैव तस्मात्स्थानान्निर्जगाम।

180 
 182