You are here: Home » stories » 180
179 
 181

त्यागसंस्कारमहिमा

बभ्राम ग्रामान्बहून् कश्चित् परिव्राट्, भैक्ष्योपार्जितवृत्तिरेव प्राणान् धारयन्, सद्धर्मं च जनेभ्य आचक्षाणः। जातुचिदकिञ्चनकुटीरस्य कस्यचिदलिन्दमध्यास्य तारस्वरेण ययाचे— “मातर्देहि मे भिक्षाम्” इति।

नितान्तदरिद्रमेवासीत्तन्निवेशनम्, नाभूच्च कश्चिद्वयोवृद्धस्तत्र। तमुच्चैर्घोषमाकर्ण्य निरगात् काचित् कन्यका, व्याजहार च— “भगवन्, नितान्तमकिञ्चना वयम्। न हि किञ्चिद्वस्तु दानार्हमिहास्ति” इति।

“वत्से, मा स्म विषादं कृथाः। त्यागकर्मैव खलु प्रधानम्, न तु देयस्य वस्तुनो मूल्यम्। नन्वस्त्येवामुष्य भवनस्य प्राङ्गणे पांसुः ? तमेव मे प्रयच्छ” इत्याबभाषे स मुनिः।

आदाय मुष्टिना पांसुं प्रणम्योपसृत्य च निदधौ सा बाला तं मुनेरमुष्य भिक्षापात्रे। 'आयुष्मती भूयाः' इत्याशिषं प्रयुज्य निर्जगाम ततः स मुनिः।

निशाम्यैतदखिलं किञ्चिद्दूरमतिक्रम्य पप्रच्छ कश्चिदन्तेवासी— “आर्य, न हि पांसुरयमाहार्यः। नाप्यमुं लब्ध्वा तेऽस्ति किञ्चित्प्रयोजनम्। नाप्यमुष्या दात्र्याः कोऽपि लाभः सम्भाव्यते। एवं सत्यपि किमर्थं भिक्षारूपेण पांसुममुमयाचिष्ठाः ?” इति।

तदा प्रहस्य जगाद मुनिः— “तात, मा स्म मंस्थाः पांसुलाभो निरर्थक इति। अस्त्येवात्र किञ्चिन्महत् प्रयोजनम्। गृहमुपेयुषे भिक्षवे यथाशक्ति किञ्चिद्देयमिति हि सनातनस्तीर्थपथः। स च सर्वथा परिपालनीय एवेति बलीयान् भावोऽनया घटनया तस्याः कन्यकायाश्चेतसि प्रादुरभूत्। तदेतदेव महत् फलम्। यद्यस्मिन्नवसरे सा किमपि नादास्यत्, तर्ह्यागामिनि कालेऽप्यस्यास्त्यागपराङ्मुखतैव समवर्धिष्यत। काममदायि तयाद्य पांसुरेव, किन्तु तेनास्या दानप्रवृत्तिरेव ववृधे। तदेतदेव खलु परं प्रयोजनम्” इति।

179 
 181
Search
stories/180.txt · Last modified: 2026/05/22 05:18