You are here: Home » stories » 182
181 
 183

लोकहितैषिणी बालप्रज्ञा

शशास मालवाख्यमण्डलं मल्हाररावहोलकरो नाम कोऽपि क्षोणीपालः। कलत्रममुष्य गौतमबायीति प्रथामुपेयुषी काचिद्धृदयहारिणी पट्टराज्ञी बभूव। तयोश्चैक एव खण्डेरावहोलकराभिधान औरसः सञ्जज्ञे।

जगाम कदाचिदसौ राजपरिवारश्चौण्डिनामधेयं खेटकम्। तत्र च कस्यचित्सुरसदनशिलान्यासमहाय राज्ञीं गौतमबायीं समुपजुह्विरे तत्रत्याः। सप्रहर्षं चाङ्गीचकारासौ तदाह्वानम्।

यदा खल्वसौ मङ्गलाहः समाजगाम तदा समापेतुः सहस्रशः पौराः। समुपतस्थौ च सा राज्ञी स्वभर्त्रा बन्धुवर्गेण च सार्धं तस्मिन्शुभलग्ने। प्रारेभिरे चातिथ्यसत्कारानन्तरं पूजोपचाराः।

अतर्कितमुदबिभेद तत्र कश्चिद्वारिप्रवाहो धरातलात्। परमां मुदमुपययुर्ग्रामीणास्तेन व्यतिकरेण, यतो ह्यमी दारुणतोयाभावेन सुचिरं व्यथन्ते स्म। यमेव गर्तं याज्ञिका आदिदिशुस्तस्मिन्नेव पावनीं शिलां निधातुमियेष गौतमबायी।

“विरम देवि, विरम ! मा कृथास्त्वमत्र देवमन्दिरप्रतिष्ठाम्” इति कस्याश्चिद्बालिकाया निनादं शुश्रुवुः सर्वे।

विस्मयस्तिमितलोचना ददृशुस्ते जनास्तद्ग्रामवास्तव्यां नवहायनां कांचन कुमारिकाम्। जगाद चासौ निर्भयम् - “पश्यामः खलु वयमत्रोद्भिद्यमानं पयः। न खल्वमुष्मिन्खेटके क्वापि विद्यते पानीयप्रस्रवणम्। अत्रत्याः प्रमदा जरत्यश्च प्रतिदिनं क्रोशद्वयमात्रमध्वानं पद्भ्यामतिक्रम्य पीतये तोयमाहरन्ति। पश्यामस्तावदधुनामुष्य जलकष्टस्य कंचन प्रतीकारम्। तस्मादत्रैवावटं वापिकां वा खानयेम। शक्यते ह्यन्यत्रापि विधातुं देवायतनम्। न हि सर्वत्रोपलभ्यते वारिप्रस्रवणम्” इति।

निशम्य तस्यास्तदौचित्यगर्भं वचः कियन्तं कालं मौनमालम्बन्त सर्वे। तदनु तस्मिन्नेव प्रदेशे पुष्करिणीं खानयितुं निजभटान् समादिदेश मल्हाररावः। अमुष्या बालिकायाः प्रागल्भ्यं लोकहितैषणां च निशाम्य तां निजस्नुषात्वेनोपजग्राह स क्षितीशः।

आगामिनि काले सैव कन्यका मालवमण्डलं परमोत्कर्षं प्रापयामास या खलु प्रातःस्मरणीया राज्ञ्यहल्याबायीहोलकर इति नाम्ना भुवि पप्रथे।

181 
 183
Search
stories/182.txt · Last modified: 2026/05/23 16:06