अविमुक्ते जाह्नवीरोधसि विशीर्णोपनत्सीवनवृत्तिरपि रूयिदासाख्यः कश्चिदैकान्तिको भक्तो भागीरथ्यामेव निदधौ स्वमानसम्।
प्राप्ते कदाचिन्महति पर्वणि स्वकर्मव्यग्रतया मन्दाकिनीमवगाहितुमनीशानोऽसौ तदभिमुखं प्रस्थितस्य कस्यचिद् विप्रस्य पाणौ कार्षापणमेकं निक्षिप्य “मत्प्रतिनिधितया त्वयेदं सुरनद्यै निवेद्यताम्” इति तं ययाचे।
सुरनदीरोध आसाद्य तस्मिन् भूदेवे तां मुद्रां स्रोतसि प्रक्षिपत्येव, हाटकवलयभूषितं किञ्चन कराम्बुजं सलिलादुन्ममज्ज।
“रूयिदासायेदं यच्छ” इत्यभिधाय विप्रस्य पाणौ तदाभरणं निक्षिप्य तिरोदधे भगवती त्रिपथगा।
काञ्चनाभरणसन्दर्शनेन समुपजातात्यर्थलुब्धभावोऽसौ द्विजो रूयिदासाय तदप्रयच्छन्नेव, नृपसदनमुपगम्य तद्विक्रेतुमीहाञ्चक्रे।
अवलोक्य तन्महार्घाभरणं सञ्जातशङ्कः क्षमापतिः “एतत्प्रतिरूपकमपरं वलयमानय” इति तं द्विजमादिदेश। किन्तु सर्वथा प्रयतमानोऽपि स विप्रस्तत्सदृशमन्यदवाप्तुं न शशाक।
अनृतभाषणाद् भूपतेर्दण्डभिया सन्तप्तः स भूदेवो राजसदनमुपगम्य यथावृत्तमाचचक्षे।
तदाकर्ण्य रूयिदासमाहूय नरेशः “यदि त्वं सुरनद्याः प्रकृतो नन्दनोऽसि, तर्ह्येतत्प्रतिरूपकमपरं वलयमानीय मह्यं यच्छ” इत्याजगाद।
भक्तोऽसौ मनसा भगवतीं जाह्नवीं स्मारं स्मारं स्वसमीपोपानच्छौचार्थं संस्थापिते सलिलभाण्डे स्वकरं निदधौ। तत्क्षणादेव तस्मात्तदनुरूपमपरं कटकमुपलेभे, यच्च स नृपाय निवेदयाञ्चकार।
परमविस्मयापन्नो महीपतिः “त्वं तु जाह्नवीं नैव जग्मिवांस्तथाप्यस्मिन् दुर्गन्धिते कुम्भसलिले कथं त्वयेदं कटकमासादितम्?” इति तं पप्रच्छ।
“यदि स्वान्तं निर्मलं स्यात्, तर्हि यत्र क्वापि भागीरथी साक्षात्क्रियेतैव” इति प्रतिजगाद रूयिदासः।