भगवन्मायाविजृम्भितम्
विज्ञापयामास कदाचित्सुदामा देवकीनन्दनम्— “कीदृक्स्वरूपेयं भगवन्माया ? दिदृक्षते तामुच्चकैर्मे मानसम्। तदनुगृहाण मामेतद्दर्शनेन” इति।
विहस्य प्राहाच्युतः — “सखे, अन्तरे लभ्यमाने प्रदर्शयितास्मि” इति।
व्यगाहिषातां ततस्तौ गोमतीतोयम्। तीर एव पीताम्बरं वसानोऽवतस्थे शौरिः। प्रवाहवेगं विलोकयन्नेवाकस्मात् सलिले पपात विप्रः, जह्रे च तरसा स्रोतसा।
कतिपयैरेव निमेषैः कृच्छ्रादुत्ततार कूलम्, अद्राक्षीच्च तत्र कमपि मतङ्गजम्। स च नागस्तत्कण्ठे काञ्चनमयीं स्रजं समाससञ्ज। तदालोकनाच्चोच्चकैर्जहृषुः कोलाहलं च चक्रुः पौराः।
समीपमुपसर्पन्नेकोऽमात्यो व्यजिज्ञपत्— “देव, पञ्चत्वमगमन्नः पृथिवीपतिः। यस्य च कण्ठे वारणोऽयं स्रजमाबध्नाति, स एव राज्यश्रियं शास्तीत्येष एव नः कुलक्रमः। तदद्यप्रभृति भवानेव नः स्वामी” इति।
अध्यास्त चैवमसाववनिपतिपीठम्। उपयेमे च काञ्चिदवनिपालकन्यकाम्। अजायेतां च तस्यां द्वौ तनयौ। अतीयुश्चैवं द्वादश शरदो भुञ्जानस्य राज्यसुखम्।
व्यपद्यत कदाचित्तस्य धर्मपत्नी। शोकावेगाच्च रोरुद्यते स्म। न्यगदच्च तं मन्त्री— “राजन्, अलमश्रुपातेन। महिष्या सह भवानपि वैश्वानरं प्रविशेदित्येवास्मद्देशस्य परम्परा” इति।
तदाकर्णनेन भृशमुद्विविजे तत्रास च सः। जहौ च शोकं, चिचेष्टे च पलायितुम्। निग्राहं निजगृहुश्च तं राजपुरुषाः। अयाचत च तानसौ— “चिताधिरोहणात्प्रागवभृथस्नानमभिलषामि” इति। अनुमेनिरे च तद्भटाः, सावधानतया चैनं ररक्षुः।
नयने निमीलयन् सस्मार स पुण्डरीकाक्षम् — “हा कृष्ण ! करुणासागर ! त्राहि माम्” इति प्रलपन्नेवोन्मिमेष च लोचने। हा चित्रम् ! स एव देवकीसुतो गोमतीतीरे पीताम्बरधरस्तिष्ठति स्म। मुखकमले चास्य स्मितरेखा व्यलसत्।
बुबुधे च सुदामा— “स्मितमुपदर्शयत्येष हरिः। नूनमेतदखिलममुष्यैव मायाविजृम्भितम्” इति।