You are here: Home » stories » 192
191 
 193

स्वचित्तानुसारी हि जगदाकारः

सुवेलगिरेः शृङ्गं मारुत्यादिप्लवङ्गमैः साकमध्यारुरोह कदाचिद्दाशरथिः। नभोमण्डले भ्राजमानं हरिणाङ्कं निदर्शयन् पप्रच्छ स वयस्यान्— “भोः सखायः! हरचूडामणौ यदयं श्यामलकलङ्कश्चकास्ति, किं नु खलु तस्य निदानम्? स्वमत्यानुगुण्येन ब्रूत” इति।

पार्थिवो हि सुग्रीवः सर्वत्र राष्ट्रांशमेवावबुध्यते। जगाद सः— “क्षमायाश्छायैवास्मिन् परिलक्ष्यते” इति।

यं ज्यायान् भ्राता निरभर्त्सयत् राज्याच्च निरवासयत्, स पौलस्त्यो बभाषे— “स्वर्भानोश्चरणाघातस्यैवायं व्रणो लक्ष्यते” इति।

सिंहासनमर्हन्नपि यो यौवराज्यमात्रेणैवातुष्यत्, स वालिपुत्रो जगाद— “रतिमुखारविन्दं स्रष्टुं विधाता सुधांशोः सारभागं जहार। तेन सञ्जाते विवरे यदन्तरिक्षं परिदृश्यते, तदेव कृष्णवर्णतया प्रथते” इति।

जनकजाविरहव्यथया योऽतप्यत, स भ्रातृवात्सल्यनिधी रघूद्वहोऽवोचत्— “गरलं हि सुधांशोः सहजो भ्राता। तमेव स्ववक्षसि बिभर्ति कलानिधिः। तस्यैव गरलस्य प्रकोपात् निजमयूखैर्विरहिणो बाधते शशाङ्कः” इति।

सर्वत्र दाशरथिमेव वीक्षमाणो रामभक्तिरसिको मारुतिर्बभाषे— “देव! भवदीयोऽनुरक्तः किङ्कर एष रोहिणीपतिः। निजहृदये भवतो नीरदश्यामलां मूर्तिमेव धत्ते” इति।

अत्रास्माकमन्तःकरणसङ्काशः खल्विन्दुः। निजचित्तवृत्त्यनुसारेणैव मुकुरकल्पे मनसि परेषामपि स्वभावमवगच्छामः। सर्वत्र दुर्जनानेवावलोकते कलुषितान्तःकरणः, सुयोधनवत्। सज्जनानेव तु वीक्षते विशुद्धचेताः, युधिष्ठिरवत्।

191 
 193
Search
stories/192.txt · Last modified: 2026/06/03 12:08