आटीत् किल दण्डकाननभूमीर्जनकनन्दिनीसौमित्रिसखः काकुत्स्थो यदा ह्यसावुदन्तो न्यपद्यत। खेदमापुरविश्रान्तमटन्त इमे त्रयोऽपि। तृडार्दिततमा बभूव जानकी, न चाद्राक्षुः कुत्रचिदपि पानीयस्थानममी नेदीयसि प्रदेशे। अयाचिष्ट च ततो रघूद्वहो देवम्— “भोः करुणानिधे, आदिश तं पन्थानं यद्यस्ति कश्चन कासारोऽविप्रकृष्टे” इति।
अनायतेनैव समयावधिना कश्चिद् बर्हिणः समाजगाम। अभाषिष्ट चामुमसौ— “आर्य, विद्यते हि कश्चिन्निदाघतापापहारको जलाशयः सन्निकृष्टे। तं प्रति प्रस्थातुमहं त्वामुपदेक्ष्यामि मार्गम्” इति।
तदन्वमोदिष्ट रघूद्वहः। विज्ञास्यन्ति पन्थानं रामादय इति धिया तत्र तत्र निजचन्द्रकान् निपातयन् उदडीयत पुरतो मयूरः। पिच्छोपलक्षितं वर्त्मानुसरन्तः सरोजिनीं तामवापन् दाशरथ्यादयः। तत्र हि मुमूर्षापन्नं भुवि निपतितं तं कलापिनं ददृशुस्ते।
उपसृत्य चैनमप्राक्षीत् काकुत्स्थः— “किमर्थमवापस्त्वमिमां शोचनीयामवस्थां परोपकारनिरतोऽपि, सखे शिखिन्?” इति।
प्रत्यभाषत च स बर्ही— “मधुमासे हि स्वयमेव स्रंसन्ते नश्चन्द्रकाः, न च तदानीं काञ्चिद् व्यथामनुभवामः। अद्य तु बलादपातयमहम्, तेन खल्ववापमिमां दशाम्। अथापि न मे मनागपि शुग् विद्यते, यतो हि ते साहाय्यमनुष्ठातुमवापमवसरम्। अत एव भृशं प्रहृष्यामि” इति।
अभाषिष्ट च ततो रघुनन्दनः— “न हीशे त्वां मृत्युमुखादुद्धर्तुम्। निजप्राणसङ्कटमप्यविगणय्य यस्त्वमुपचचर्थ, तदस्य प्रत्युपकारधिया आगामिनि प्रादुर्भावे ते चन्द्रकं सदा मूर्ध्नि वक्ष्यामि। कृतोपकारं प्राणिनं जातु न विस्मरेदितीमां नीतिं भुवनमण्डलं बोधयितास्मि” इति।
एतस्मादेव हेतोः कृष्णप्रादुर्भावे भगवान् वासुदेवो निजमूर्ध्नि शिखिपिच्छं दधारेति समवलोक्यते।