You are here: Home » stories » 204
203 
 205

गूढपरोपकारः

विपन्नः खलु कोऽप्यर्थहीनः पञ्चत्वं जगाम। अल्पवयस्का एवास्य तनयाः। प्राणेशप्रयाणदुःखतप्ता 'कथमहमिमं कुटुम्बभारमुद्वहेयम्' इति सुतरामशिश्रियच्छोकं तत्पत्नी।

एतद्व्यतिकरमाकर्ण्य कश्चित् कारुणिकस्तद्गेहमुपेत्य तामाबभाषे — “आर्ये! त्वत्पत्युः सविधे पुरा मया कश्चिदृणभार उपादायि। यावदसौ प्राणान् नाहासीत् तावन्मया तन्नापाकरि। तत् क्षमस्व मेऽपराधम्। इदानीं किञ्चिद्धनमिदं समुपहरामि। गृह्यतामेतत्। अवशिष्टमृणं क्रमेण वितरिष्यामि” इत्युदीर्य धनं प्रदाय स निरगात्। सा च दीनवनिता कृतज्ञतया तदग्रहीत्।

इत्थमेव त्रिचतुरवत्सरान् यावत् स महाभागस्तस्यै विपन्नायै तदा तदा द्रविणं ददौ।

कदाचित् कश्चिद्ज्ञातिस्तां पप्रच्छ — “भद्रे! भर्तुरुपरत्या निरुद्धो हि ते धनागमः। तत् कथमिवेदानीं कुटुम्बयापनं निर्वहसि?”

सा प्रत्युवाच — “मम भर्त्रा कस्मैचिदृणं व्यतारीति श्रूयते। स खल्वधमर्णः समये समये समेत्य किञ्चिद्धनं वितरति। तेनैव वयं दिने द्विरशनमश्नीमः।”

“को नाम स महात्मा?” इति ज्ञातिरनुयुयोज।

“नाभिजानामि तस्य नामधेयम्। परं तस्याकृतिरेतादृशी…” इति सा तस्य वदान्यस्य रूपलक्षणान्याचचक्षे।

तदाकर्ण्य “ननु स ईश्वरचन्द्रविद्यासागरो नाम प्रातःस्मरणीयः” इति ज्ञातिर्जगाद।

“किमर्थं स मम पत्युः सविधे ऋणमग्रहीत्?” इति सविस्मयं पप्रच्छ सा।

“नैतदृणं परं समाजस्योपकाराय तस्य निसर्गसिद्धं व्रतम्। ऋणापाकरणमिषेणान्यापदेशेन वा तादृशेभ्यः कतिभ्यो विपन्नेभ्यस्तेन महात्मना धनं व्यतारीति स एव भगवान् वेद” इति स ज्ञातिर्व्याजहार।

203 
 205
Search
stories/204.txt · Last modified: 2026/06/17 16:49