You are here: Home » stories » 206
205 
 207

अनुष्ठानसारो धर्मः

पर्यपृच्छच्चोपसद्य कश्चिन्मुमुक्षुरमुं यतिवरम् — “भगवन्, अनुशास्ति भवान् खल्वहरहर्मर्त्यान् धर्मपथि। कुतो वा साम्प्रतं न चकास्त्यमुष्य धर्मस्य लघिष्ठोऽपि महिमा ?” इति।

“शुश्रूषन्त इमे सोत्कण्ठं मदीया वाचः, परं श्रवणमात्रेण कथमिवोन्मिषेद्धर्मस्य स्फुरितम्” इत्यवादीत् स योगी।

“का नामेतरार्हता मृग्यते तेषु ?” इत्यनुयुयुजे स मुमुक्षुः।

अनिगद्यापि प्रतिवचो यतिस्तमेव प्रत्यनुयुयुजे — “कियद्दवीयः खल्वितो राजगृहम् ?” इति।

“विंशतियोजनमितेऽध्वनि” इत्याचख्यौ सः।

“विजानासि किं याथातथ्येन त्वमदः ?” इति पर्यपृच्छद्योगी।

“अथ किम्, सम्यगवेम्यहम्” इति स बभाषे।

“आससत्थ किमिदानीं त्वं राजगृहम् ?” इति भूयोऽप्यपृच्छद्यतिः।

“इहास्मि तावदहम्। न खलु पदमेकमपि तदभिमुखं प्राचलिषम्। तत्कथमिव घटेत तदवाप्तिः ?” इति प्रत्यवादीत् सः।

व्याचचक्षे च योगी — “अवगमादेव केवलं न खल्वासाद्यते राजगृहम्। तद्गन्तुकामो नूनं पदानि विन्यस्येदेव। अनयैव नीत्यानुस्रियेत धर्मोऽपि। विदुरेवामी धर्मतत्त्वम्, न पुनरनुवर्तन्ते। यावद्धीमे धर्मपन्थानं नानुसरेयुस्तावन्नूनं न प्रादुर्भवेत्तेष्वमुष्य प्रकर्षः” इति।

205 
 207
Search
stories/206.txt · Last modified: 2026/06/17 17:38