211 
 213

तात्पर्यविवेकः

अन्वशासत्पुरा कश्चित्कुलपतिर्विद्यापीठम्। अधिजगाम कदाचित्तमाश्रमं महीपतिरुवाच च — “गुरो ! दार्ढ्याय राज्यतन्त्रस्य मृग्यते कश्चित्सूक्ष्ममतिरमात्यः। तदुपदिश ते शिष्येषु कञ्चन योग्यम्” इति।

अभूवन्नमुष्मिन्विद्यामठे त्रयो महाप्रज्ञाश्छात्राः। विविदिषुस्तेषां तारतम्यं देशिको मीमांसामेकामकल्पयत्। आहूय च तान्समग्राञ्जगाद — “वितरामि युष्मभ्यमेकैकस्मै घृतभृतं कुम्भम्। न्यस्येतासौ कलशो महापथ एव, यत्र मानवाः पशवो यानानि चातर्कितं सञ्चरन्ति। किन्तु मा स्म भाजि स घटः, मा च तदन्तःस्थितमाज्यं स्तोकमपि विपरिलोपि। उपनयेत सायं चाक्षतममुं सर्पिष्कुम्भं मठान्तम्” इति।

निदेशमादाय गुरोर्घृतकलशान्बिभ्रतस्ते त्रयोऽपि च्छात्रा निजग्मुराश्रमात्। न्यवर्तन्त च तपोवनं सर्वेऽपि ते प्रत्यासन्ने दिनान्ते।

बभाषे प्रथमः — “उपाध्याय ! अकरवं तथैव यथोपादिक्षस्त्वम्। अरक्षं जाग्रत्तमहमुषस आरभ्य सन्ध्यां यावन्महापथे। अताडयत्कलशं खुरेणाकस्मादापतन्ती काचिद्गौः। व्यशीर्यत चासौ तेन” इति।

शशंस द्वितीयः पूर्णेन कुम्भेन सार्धमागतः — “देशिक ! नूनं दीर्येतासौ कलशो यदि पथि निधीयेतेति विमृशन्नगोपायं तं स्वगेहमुपनीय। उपानयं च सम्प्रति तमिह” इति।

अभ्यधादाचार्यस्तं द्वितीयम् — “अमंस्थास्त्वं विगर्हितं मे निदेशम्” इति।

न्यधादथ तृतीयः सविनयं तं घृतभृतं घटं गुरोः पुरतः। पप्रच्छैनं गुरुः — “अनैषीः किमेनं कुम्भं तथैव त्वमप्यसाधुर्मे निदेश इति मन्वानः ?” इति।

अवोचत्सः — “न हि गुरो ! अन्वपालयं कार्त्स्न्येण ते निदेशम्। अनैषं तं गेहं क्षणमात्रं राजपथे कलशं निधाय यथोपादिक्षस्त्वम्। उपाहार्षं पुनरपि विद्यामठमेनं तत्रावसाय्य च मे स्वाध्यायमादिनान्तम्” इति।

तुतोष कुलपतिराकर्ण्यैतदुत्तरम्। “अन्वतिष्ठो यथावन्मे निदेशं किं मे विवक्षितमिति सम्यगवगम्य” इति प्रशस्य प्रजिघाय तं तृतीयं छात्रं महीपतेः सकाशम्।

211 
 213