जुघोष कदाचित् कश्चिद्विपश्चित् - “विद्यते मयि लोकोत्तरा काचन विद्या, यदधिगमेनैहिकमामुष्मिकं च शर्म समवाप्स्यते। हाटकमुद्राणां सहस्रचतुष्टयं वितरेद्योऽमूमुपादित्सेत” इति।
उदन्तमिममन्वश्रौषीन्महीपतिः। आनाय्य स्वसभाममुं विपश्चितं विधिवत्सम्पूज्य तदग्रे च हाटकमुद्राणां सहस्रचतुष्टयं निधाय स जगाद - “विद्वन्, वितर मे त्वयि विद्यमानां तामपूर्वां विद्याम्” इति।
स्मेराननो बभाषे स विबुधः - “चतुष्टयं सूत्राणां मयि विद्यते, यत्खलु मदीयाज्जीवनानुभवादधिगतम्। श्रद्दधानो निशामय। 'प्रभुणा वितीर्णेनातुष्यता ततोऽपि श्रेयानपरः प्रभुराश्रयणीयः' इति तावदाद्यम्। 'धर्मविरुद्धमीश्वराननुमतं च कर्म परिहर्तव्यम्, तस्माद्देशाद्वा निर्गन्तव्यम्' इति द्वितीयम्। 'यत्रैकोऽपि साक्षी न विद्येत, तत्रैव किल्बिषमाचरेत्। तादृशविजनालाभे तु पापमेव सर्वथा हातव्यम्' इति तृतीयम्। 'इह लोके वस्तुमभिलषता सर्वानुकूल्यविधायिने जगदीश्वराय पदे पदे कृतज्ञताविष्कारः कर्तव्यः। यदीदं न रोचते, तर्हि तेन सृष्टं किमपि वस्तु नोपयोज्यम्, तदीयमन्नं चापि नादनीयम्' इति तुरीयम्” इति।
सूत्राण्यमून्याकर्ण्य चिन्तापरवशः समपद्यत महीपालः। तावदमुमुद्दिश्य जगाद स मनीषी - “यद्यनुस्रियेरन्मयोपदिष्टान्यमूनि सूत्राणि, तर्हि सर्वविधानि कृच्छ्राणि क्षयमीयुः। दीनेभ्यो वितरैतद्द्रविणम्। अधिकारपरीक्षणायैव मयायमुपायनप्रस्तावः पुरोऽधायि। का नाम धनेष्वास्था? ईदृशमर्थमादाय किं वा साधयेयम्?” इत्युदीर्य ततो निर्जगाम।