225 
 227

नारीमानरक्षणम्

सुहृदमामन्त्रयितुं निजकलत्रैः साकं वाष्पशकटविश्रामभूमिमवतेरुरमी भारतीयाश्चमूपतयः। तस्मिन्नन्तरे काश्चन प्रमदा भृशं कदर्थयाञ्चक्रुरशिवाः क्षुद्रप्रकृतयः। ततश्चामर्षिताः सेनाध्यक्षास्तान् निग्रहीतुमुद्ययुः। तान् प्रहृत्य पलायाञ्चक्रिरे ते पापात्मानः। अथासौ चमूनाथो 'निगृह्यन्ताममी दुराचाराः' इत्याजज्ञाज्ञापयामास।

तदन्तिकवर्तिन्यां चित्रशालायां प्रेक्षकमध्ये तिरोदधिरे ते खलाः। अन्विष्य च तान् निजगृहुः शूरङ्मन्यान् चमूपतयः। अपाकृत्य च तेषामुत्तरीयाणि, कौपीनाच्छादितगुह्यान् विधाय, तान् महापथे भृशं विडम्बयामासुः।

अमात्यमुख्यात्मज एवासीत्तेषां खलानां पुरोगमः। असौ पितरमुपगम्य चमूपतीनां बन्धनमभ्यर्थयामास। सूनोः परिभवमाकर्ण्य क्रोधान्धोऽमात्यमुख्यः सेनापतीन् निगडयितुं पृतनावासमभिप्रतस्थे। न खल्वन्वज्ञायि तत्रामात्यमुख्यस्यापि स्यन्दनप्रवेशः।

अमर्षान्वितोऽमात्यमुख्यः सर्वममुं वृत्तान्तं प्रधानामात्याय शशंस। समाहूय च प्रधानचमूपतिं प्रधानामात्यः पप्रच्छ - “किमिदमाचरः? किमर्थममात्यमुख्यं पर्यभूः?” इति।

ततः कृत्स्नमुदन्तमभिधाय महासेनापतिर्जगाद - “चतुष्पथे पुरन्ध्रीणां शीलरक्षणायैव वयममुं पन्थानमाश्रयामहि। पूज्या हि योषितः। तासां मानरक्षणमस्माकं परमो धर्मः। यद्येतन्नाचर्येत, तर्हि देशस्य महती विडम्बना सम्पद्येत” इति।

ततस्तममात्यमुख्यमुद्दिश्य प्रधानामात्यः - “न खलु न्याय्यं दुष्कृतानां समर्थनम्” इत्यनुशिष्य तं विससर्ज।

अबलानां मानरक्षणाय महामात्यस्यापि रोषं तृणीकुर्वाणस्य, प्रधानामात्यस्यापि पुरतः स्वमाचरणं समर्थयमानस्यामुष्य पृतनापतेर्नाम 'जनरल् कारियप्प' इति प्रथामगात्।

225 
 227