औदार्यविजितामित्रता
प्रविवेश निशीथे कश्चिद् युवेमामेव क्षत्रियकुलावतंसस्य शिवनृपतेः स्वापभुवम्। अद्राक्षीच्चैतद् रक्षणव्यापृतस्तानाजिरिति नाम्ना योधः। 'किमनेन विधीयेत' इति विजिज्ञासमानस्तु स न तं रुरोध। जिघांसुर्यदा स युवा नृपतिमसिमुदग्रहीत्, तदैव सहसोत्पत्य तानाजिस्तं बबन्ध।
एतावता प्रबुद्धो नृपः पप्रच्छ - “अये माणवक! कस्ते व्यपदेशः? किमर्थमिहागमः?” इति।
“मालोजिर्नामैषोऽस्मि। त्वामेव व्यापादयितुमिहागमम्” इति निर्भीकं जगाद स युवा।
“तेन किं ते सेत्स्यति प्रयोजनम्?” इति पर्यपृच्छत् क्षोणीपतिः।
“त्वां निहतवते विपुलं वसु वितरिष्यति ते रिपुः सुभागराय इत्यश्रौषम्। तदवाप्य रुजाक्रान्ताया मे मातुश्चिकित्सां विधास्य इत्युद्देश्येनाहमिहागमम्” इति स ऊचे।
“रे रे बालिश! महाराजं जिघांसतो यमसादनप्रवेशनमेव ते न्याय्यम्। कुरुष्व मरणाय सज्जमात्मानम्” इति जगर्ज तानाजिः।
“राजन्! अनुचितं यदकार्षम्, तेन दण्ड्योऽस्म्येव। ततो न बिभेमि प्राणदण्डात्। परं तु पञ्चत्वापत्तेः प्रागेव मातुराशीर्वचांसि ग्रहीतुं समीहे। तदर्थमनुजानीहि माम्” इत्ययाचतासौ।
“आः! पलायितुं खल्वयं ते प्रपञ्चः? न ह्येतादृशं वयं मृष्यामहे” इति परुषमुवाच तानाजिः।
तथापि शिवनृपतिस्तं विससर्ज। ततो निर्गच्छन् स युवा श्वोभूते राजसभामुपस्थाय “अम्बां प्रणम्य निवृत्तोऽस्मि। सम्प्रति मां व्यापादयितुमर्हसि” इत्यभ्यधात्।
अथ शिवनृपः - “अये सत्यवीर! तादृशाय ते यद्यहं प्राणदण्डं दद्यां, कथं नु मां क्षमेत जगदीश्वरः?” इत्युदीरयन् सिंहासनादवरुह्य तं गाढं परिषस्वजे। “अद्यप्रभृति मच्चमूं भूषय” इत्यादिश्य तन्मातुरामयप्रतीकाराय समुचितां व्यवस्थामकार्षीत्।